पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. नजः पर्युदासकत्वम् । र्थमाहवनीयशास्त्रापेक्षाऽस्ति । निषेधशास्त्रस्य तु प्रस- क्त्यर्थ यजतिषु येयजामहं करोति' इति विधेरस्त्यपेक्षा। मान्यविशेषवाचं निरस्यति बाध्यति । निषेधशास्त्रस्य-वैदिक- निषेधस्येत्यर्थः । इनिशब्दः प्रकारवाची । विधेरिष्टसाधनत्वप्रमिते- रित्यर्थः । अपमाशयः-वोचकवाक्यानां सर्वदा सर्व पुरुषान्प्रत्यक- रूप्येणैव प्रामाण्यं वक्तव्यम् । ग्रहणधारणाध्ययनविधिभ्यां तथैवा. पेक्षणात् , 'एषा वा अनहिताग्नेरिष्टिर्यचतुझेतारः' इत्येतद्गोचरषा- ठन्यायाच्च, निषेधनिरूपणावसरोकन्यायाद्वा। ननु तत्र भावे अनूया- नेषु येयजामहङ्करोति' इतिवचनम् उपसंहारार्थ स्यात् , तत्र चानुयाजो. द्देशेन येयजामहस्याग्नेयोद्देशेन चतुर्दाकरणस्येव विधेयत्वात् , सति नजि तस्यैव निषेध्यत्वमुचितमिति चेत् । समानशाखाया उपसंहार- विधावतात्पर्यविषयस्याप्युद्देश्यविधेयभावस्य शास्त्रान्तरतात्पर्यप्र- तीत्युपायपात्रतयोपन्यासात् नमभावेन किं तस्य । वास्तवोद्दे- श्यविधेयभावस्यैव सति नजि विध्युद्देश्यनिषेध्य भावनियामकत्वात् । अत उक्तविध एव वाक्यार्थो वाच्यः-यदनुयाजेषु येयजामहं कुर्या- त् तन्न । निर्वचनव्यक्तिनिषेधपक्षवाच्या । वक्ष्यमाणन्यायेन च नन- भावेऽनुवाद्यतया प्रतीतपदार्थमध्ये कस्यापि सति नजि तच्छब्दो- पबन्धेन निषेध्यतारूपविषयताऽसम्भवः । ईदृशवाक्यार्थबोधश्च 'कुर्यात्' इय॑न्तावान्तरवाक्यार्थप्रसिद्ध्यधीनः, अप्रसिद्धस्यानुवाद्य. स्वायोगात् । नच विशिष्टानुवादे वाक्यभेदवशेन येयजामहयात्रस्य निषेध्यत्वान्नावान्तरवाक्यार्थप्रसिद्धथपेक्षेति शङ्काम् । नैमित्तिकवै. दिकत्वेन निमित्ताश्वदाने क्रत्वपूर्वसाधनत्वात्मविशेषसिद्धिवटै दिकनिषेधवशेन निषेध्यस्य ऋत्वपूर्वसाधनत्वात्मकविशेषसिद्धिद- शायां ‘य इष्टया'इतिवाक्ये यजिनेष्टयाद्यपूर्वसाधनस्येव येयजामहप- देनानुयाजापूर्वसाधनत्वोपहितस्यैव येयजामहस्य विवक्षायां तत्प. ।