पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४५० भाट्टालङ्कारसहितमीमामान्यायप्रकाशे- त्वम् , 'ब्रीहीनवहन्याद' इत्यस्येवावघातनियमबोधक- त्वम् । यथा खलु 'ब्रीहीनवहन्याद्' इति शास्त्रं वैतु- प्यार्थमवघाते स्वतः प्रवृत्तं पुरुषं प्रति न प्रवर्त- ते वैयर्थ्यात, किं तु विदलनादौ प्रवृत्तं प्रति । एवं 'न हन्याद'इति शास्त्र हननात्स्वयं निवृत्तं पुरुषं प्रति न प्रवर्त्तते वैयक्त , किंतु हनने प्रवृत्तं पुरुषं प्रति कर्तव्यत्वेन प्रसक्तस्य निषेधाद 'यत कर्त्तव्यं तन्न'इति । अतश्च प्राप्तिसापेक्षत्वात्प्रतिषेधानामनुयाजेषु येयजामहप्र- तिषेधे तस्य तत्र प्राप्तिर्वक्तव्या। सा न तावद्धनना- दाविव रागतः सम्भवति । अतो 'यजतिषु येयजा- महं करोति' इति शास्त्रात्सा वक्तव्या । शास्त्रप्राप्तस्य च निषेधे विकल्पः स्याद् , शास्त्रेण भ्रान्तिनिमित्तरागस्येव शास्त्रान्तरस्यात्यन्तबाधायोगात् । न च पदशास्त्रेणा- हवनीयशास्त्रस्येव 'नानुयाजेषु इति विशेषशास्त्रण 'यज- तिषु येयजामहं करोति इति सामान्यशास्त्रस्य बाधः स्या- दिति वाच्यम् । शास्त्रयोर्हि तत्र बाध्यबाधकभावो यत्र परस्परनिरपेक्षता । न हि पदशास्त्रस्य स्वार्थविधाना- परत्वं स्यादित्याशयः। भवत्वरूपप्राप्तिसापेक्षत्वं निषेधानां तथाऽ- पि हनननिषेध इव येयजामहानिषेधेऽपि न विकल्पप्रसक्तिरत आह सानेति । भ्रान्तिःअनिष्टाननुबन्धित्वभ्रान्तिः ! शास्त्रत्यस्येष्ट- साधनत्वप्रापकस्येत्यादिः । तस्यात्यन्तबाघे हि सत्यनुयाजरूपेष्ट- साधनत्वमाप्तान्तित्वं वाच्यम् , तथा सति पूर्वोक्तमाप्त्यभावे निषेध एच दु:स्थितः स्यादित्याशयः । कौण्डिन्यदृष्टान्तेन पूर्वशङ्कितं सा- . .