पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ नञः पर्युदामकत्वम् । प्रतिषेधक वमन्तरिक्ष चयनाप्राप्तेः । अत एव 'न ब्रा- ह्मणो हन्तव्यः' इत्यस्य नित्यवंद्धनननिवर्तकत्वमुपप- द्यते । सर्वो हि पुरुषः कदाचिद्धननादौ प्रवर्तते कदा- चिच्च रागाद्यभावेन निवर्त्तते । तत्र यदि निषेधस्य प्राप्तिसापेक्षत्वं न स्यात्तदा रागाद्यविरोधाय हननादाव- प्रवृत्तं प्रत्येव शास्त्रप्रामाण्योपपत्तौ रागादिना हननादौ प्रवृत्तेन पुंसा न ततो निवर्तितव्यम् । प्राप्तिसापेक्षत्वे तु खयमप्रवृत्तं प्रति प्रसक्त्यभावेन निषेधशास्त्राप्र- त्तेः । अतश्च 'ब्राह्मणो न हन्तव्यः' इति रागादिना प्रवृत्तं प्रत्येव भ्रान्तिनिमित्तरागबाधेन निषेधशास्त्र- प्रवृत्तेर्युक्ता प्रवृत्तस्य ततो निवृत्तिः । अतश्च ब्राह्मणो न हन्तव्यः' इत्यस्य निषेधस्य निवृत्तिनियमबोधक- यन्ति तद्धमापनयनेन संभवत्प्रतिषेधस्वस्यापि 'नान्तरिक्ष' इत्या- देयः प्रतिपेधत्वानङ्गीकारः स प्रारूपाप्तिं विना निषेधानुपपचे. रेव । अन्यथा तस्य निसानुबाइत्वं न स्यादिसर्थः । प्रवृत्तिफलो. पहितत्वापेक्षामुपपादयति अन एवेति । पुरुष इत्यनन्तरं हन- नेष्टसाधनताप्रमावानपीति शेषः । प्रामापयति । अनिर्णीत. स्यानिष्टानुवन्धित्वस्य निर्णयजननेनेत्याशयः । पुंसेति । प्रवृत्तः पुमान्न नतो निवर्तयितव्यः । यचाहि सिद्धविद्यत्रैवर्णिकान्प्रति सम्भवत्मामाण्यानां निषेधानां नानिष्टाननुबन्धित्वनिश्चयेन प्रवृत्तान् प्रति प्रतिरुचिता, तनिश्चयबाधेऽत्यन्ताप्राप्तस्यानिष्टानुवन्धि- स्वस्य प्रापणे च गौरवातिशयादित्याशयः । बोधकत्वमित्यन- न्तरमपीत्युक्तमिति शेषः । अप्रवृत्तं प्रत्येव तत्पत्तौ न नियम-