पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४८ भाहालङ्कारसहितमीमांसान्यायप्रकाश प्रसक्त्या तदाश्रयणम् । तथा हि यद्यत्र प्रधानसम्ब- न्धलाभान्ननः प्रत्ययसम्बन्धः स्वीक्रियते तथा सत्यनेन वाक्येनानुयाजेषु येयजामहः प्रतिषिध्यते इति वक्तव्य मनुयाजेषु येयजामहं न कुर्यादिति । न च तत्र तस्य प्रतिषेधः प्राप्तिं विना सम्भवति प्राप्तिसापेक्षत्वात्पति- षेधस्य । अत एव 'नान्तरिक्ष न दिवि' इत्यस्य न यितुम् । अथ वाक्येकवाक्यतामेव पर्युदासहेतुत्वेन स्वीकुर्म इति चे व । यद्यपि हि येयजामहप्रापकविधिना सह नानुयाजेष्वित्यस्य संनि धिपाठोऽस्ति तथाऽपि वाक्य वाक्यतायां को लाभो यदर्थं पर्युदास कलप्यते ? । न तावत्पदै कवाक्यतायामिवानेकतात्पर्य कल्पनागौरवर्ष- रिहारः, प्रत्येकवाक्यार्थगोचरतात्पर्यभेदकल्पनाया आवश्यकत्वात् । प्रत्युत महावाक्यार्थ गोचरस्य वाक्यद्यपर्याप्तस्य तात्पर्यान्तरस्य कल्पने गौरवाधिक्यात् । नच येयजामहविधिः प्रकरणितया निश्चित : येन प्रकरणानुग्रहायापि साऽऽश्रीयेत । माऽस्त्वेकवाक्यतायाः पर्यु दामहेतुत्वं कथं तु विकल्पप्रसक्तिः, कथं च तया पहुंदाससिद्धिरि- त्याशङ्क्य विकल्पमसक्तिं तावदुपपादयति तथाहीत्यादिना । प्राप्तिमिति अत्राप्तिर्निपेध्यस्येष्ट साधनत्वप्रतीतिः, प्रकर्षश्च तस्याः प्रमात्वेन वृत्तिफलोपहितत्वेन च प्रतीयमानत्वम् । प्रतिषेधस्येत्यन- न्तरं वैदिकस्येति शेषः । यद्विषयेटसाधनत्वपमा यत्पुरुषीयत्ति- फलोपहिताऽवगता भवति तनिषेध एव तदधिकारिको वैदिक सम्भवतीत्यर्थः । प्रमात्वापेक्षामुपपादयति अत एवेति। वेदपुराणेतिहासेषु लोकान्तरस्थानामिन्द्रादीनां यज्ञानुष्ठानश्रवणा- दन्तरिक्षयुलोकाधिकरणकचयनं तेषां यःसायनमिति ये भ्रा- म्यन्ति तदर्शन च तादृशचयनस्येन्द्रादिपत्तिविषयमभावं सम्भाव- "