पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमः पर्युदासकत्वम् । चन्द्रमूर्यग्रहे चैव न कुर्यात्पुत्रवान्गृही' । इत्यादिषु नारदादिवाक्येषु 'शयनीबोधनीमध्ये या कृष्णकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ॥ इतिभावष्योत्तरवचनेन प्राप्तस्य गृहिणां कृष्णकादश्युष- वासस्य पुत्रवद्भिनविषयत्वेन पयुदासो वाध्यत इति हेमाद्रिणोक्त- म् । तत्र कथं तेषां तस्य च पदैकवाक्यतोपपत्तिः । भिन्नग्रन्थ- गतत्वात् । भिन्नविभक्त्यन्तगृहिगृहस्थपदोपेतत्वाच्च । तदुपपत्तौ वा तुल्पन्यायतया स्वीकार्यस्य चन्द्रमूर्योपरागनिमित्तापवासे पुत्रव. त्पर्युदासस्य शब्दवृत्तेन तत्प्रापकैरेव वाक्यैः सहकवाक्यता स्यात् । सन्ति हि- अयने विषुवे चैव चन्द्रसूर्यग्रहे तथा । अहोरात्रोषितः स्नात्वा सर्वपापैः प्रमुच्यते ॥ इत्यादीनि विष्ण्वादिवचनानि तादृशानि हेमाद्रिणेवोदाहना- नि । ननु सूर्यग्रस्तास्तेऽर्थादुपवास प्रापयट्यां 'मूर्यग्रहे तु नाश्नी- यात्पूर्व यामचतुष्टयम्'इति 'अविमुच्यास्तगतयोदृष्ट्वा स्नात्वा परे- ऽहनि' इति च वृद्धगौतममात्स्यवचोभ्यां माऽस्तु ताभ्यामेकवाक्यते- ति चेत् । न । तथासति ताभ्यां प्रापितोपवासस्य पुत्रगृहीणा स्वीकारे बाधकाभावेन हेमाद्रिणवापुत्रगृहिणामुपवासनिषेधवशेन तद्वाक्यद्वय- पापितोपवासानुपपत्तिशङ्का या प्रदर्शिता,यच तत्समाधानाय 'साया- हे संगषेऽश्नीयाच्छारदे संगवादधः' इत्यादिस्मार्चवचनस्य वेघसंको- चबोधकस्य पुत्रिगृहिविषयत्वमुक्तं तदुभयमप्यनुपपन्नं स्यात् । यदि तु होमानुवादेन दध्यादिगुणविधिवदुपवासानुवादेन पयुदासविधि- माश्रित्योपवासपापकेण वाक्पैकवाक्यताऽऽश्रीयते तदाऽनुवादस्य शब्दादर्थाच प्राप्तोपवासविषयत्वसंभवाच्च शक्यते तदुभवमप्युपपाद-