पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- योपन्यामो विदुषामुचितः । भवतु वा साधी यानेष वाक्यपाठः । कथं तु व्युत्पत्तिलभ्यः पयुंदासः ? नहि 'सुन्दरे गृहे नायं तिष्ठति' इत्युक्ते. ऽवश्यममुन्दरे गृहे तिष्ठतीत्येव बोधो भवतीति कनापि स्वीकर्तुं श क्यम् । वनवासिन्यपीदृशायोगात् । अस्तु वा पर्युदासस्य व्युत्पत्तिल- भ्यत्वम्,तथाऽप्यनुयाजभेदविशिष्टान्यागानुद्दिश्य ये यजामहविधावुद्दे- श्यविशेषणस्थानुयाजभेदस्य कथं त्वविवक्षा। न चानुयाजभेद एवो- द्देश्यतावच्छेदक इति शक्यं वक्तुम् । नारिष्टहोमादिष्वपि येयजामहा- पत्तेः । एतेन मीमांसकै कदेशिनोऽपि पर्युदासहेतुत्वेनैकवाक्यतामेव ये मन्यन्ते, ते यदि पदैकवाक्यतां तथा मन्ये रन् तदा निरस्ताः। किञ्च उपात्र वपन्ति' इत्यत्रात्रशब्देन चातुर्मास्यान्युद्दिश्य विहितोत्त- खेदिः 'न वैश्वदेवे उत्तरबेदिमुपवपन्ति न शुनासीरीय'इत्येताभ्या- माद्योत्तमपर्वभ्यां पर्युदस्यत इति साप्तामिकाधिकरणे भाष्ये वार्तिके चोक्तम् । तत्र पदैकवाक्यतायामुद्देश्यविशेषणयविवक्षानिमित्तवा- क्यभेदद्वयमापद्यते । ववश्च ग्रन्थास्तन्मतेऽनुपपन्ना भवेयुः । तथाहि. 'नानुयाजेषु' इति पयुदासविषयाधिकरणस्य विषयान्तरे 'न होतारं वृणीते' इत्यत्रातिदेशिकहो तवरणपर्युदासत्वेनाभिमतेऽतिदेशेनैव सह पदैकवाक्यता वाच्या। नच सा सम्भवति । आम्नातयोः समीपाम्ना. नमन्तरेण पदैकवाक्यत्वासम्भवात् । अन्यथा दूरस्थस्यापि स्तावक- वेनैकवाक्यत्वापत्तेः। आपद्यतामिति चेत् न । 'जायमानो वै ब्राह्मण- स्त्रिभिः'इतिवाक्यशेषवशेन सोमे ब्राह्मणमात्राधिकारापत्तेः । एवं न्या- यसुधाकृन्मते 'न प्रथम यज्ञे प्रयाद'इत्यस्मिन् 'यत्प्रवृञ्जन्ति' इति अनारभ्यवादपर्युदासेऽप्यनारभ्यवादेन सह पदैकवाक्यत्वानुपप- तिर्दर्शयितव्या । नच सैव पार्थसारथिप्रभृतीनामिह पर्युदासानङ्गी- कारे वीजमिति शक्यम् । तत्र वीजान्तरस्यानुपदं वक्ष्यमाणत्वात् । किश्च । 'संक्रान्त्यामुपवासं च कृष्णैकादशिवासरे ।