पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नबः पर्युदासकत्वम् । ४४५ स एवं नेक्षेतेत्यत्र कर्तव्यतया विधीयते । अनी- क्षणसङ्कल्पेन भावयदिति भाव्याकाङ्क्षायां च एताव- ता हैनसा वियुक्तो भवति' इति वाक्यशेषावगतः पाप- क्षयो भाव्यतया सम्बध्यते । एवं चात्र पापक्षयार्थसङ्क- ल्पस्य कर्त्तव्यतया विधानात तस्य व्रतम्'इत्यनेनैकवाक्य- ता सिद्धा भवति । तत्सिद्धं 'नेक्षेत'इत्यत्र 'तस्य व्रतम्' इत्युपक्रमात्पर्युदासाश्रयणमिति । 'नानुयाजेषु ये यजामहं करोति इत्यत्र विकल्प- नानुयाजेष्विति । यथाभाष्यं करोत्यन्तवाक्योदाहरणनैतत्सूचि- तम्-नैवात्रानुषङ्गप्रसक्तिः, नापि पदैकवाक्यत्वसम्भव इति। तथाहि भाष्ये-'एष सप्तदशो यज्ञेष्वन्वायत्त इति' वाक्यं येयजामहविधाय- कत्वेनोदाहृत्य 'नानुपाजेषु ये यजामहं करोति' इति वाक्यं निषे- धकवनोदाहृतम् । न्यायसुधाकृत्मभृतिभिरपि दाशमिकाधिकरण- शरीरं दर्शयद्भिरित्थमेव वाक्यद्वयं समुदाहृतम् । एवं चोत्तरवाक्य एव श्रुतस्य करोतीत्यस्य कुतः कानुषङ्गः कथं चान्वायत्तःकरोतीतिभिन्न क्रियापर्यवसितयोः पदैकवाक्यन्वम्? असति च तस्मिन् कथं व्युत्पत्ति- बलेन पर्युदासलाम: ? सतोर्वेकवाक्यत्वतन्मूलकपर्युदासयोः 'अनु. याजेषु"सप्तदशोऽन्वायत्त' इति शास्त्रेणाश्रावयेत्यादेरप्यनुयाजेषु नि- त्यापत्तिः। 'यजतिषु येयजामहं करोति' इति वाक्येनैव सह मयैकवा. क्यत्वमुपन्यस्तं नात एष पर्यनुयोगः सम्भवतीति चेत् । कस्यां शा. खायामुपलब्धमीदृशं वाक्यमायुष्मता ?। मीमांसकमुखाच्छुतामिति चेत् । किं तदीयाकरवृत्तान्तं नाश्रौषीः, यथैव हि 'यो दीक्षितो यद. ग्नीषोमीयं पशुमालभते' इति वाक्यं विषयत्वेनोदाहृत्याग्नीषोमीयेन पशुना यजेतेति वाक्यं न्यायसिद्धमादाय ताचिकवाक्यानुसारिन्या-