पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४४ भाट्टालङ्कार महिनमीमांसान्यायप्रकाशे- स्वामिति चेता सत्यम् । नत्रो ऽभाव एव शक्तिः । स्म- रणं तु प्रतीत्यभिप्रायं, न शक्त्यभिप्रायम् । 'नामधात्व- योगी इत्यपि प्रतीत्यभिप्रायम । तथाऽपि नेक्षेत इत्यत्र प्रत्ययस्य नाऽसम्बन्धात्तेन तावत्कश्चिदर्थो विधेयः । तत्र न तावद्धात्वर्थो विधातुं शक्यते, नत्रा तदभाव- बोधनात् । नापि तदभावो विधातुं शक्यते, अभाव- स्याविषेयत्वात् । अतश्च नत्रीमतिभ्यां विधानयोग्यः कश्चनेक्षणविरोधी अर्थो लक्षणया प्रतिपाद्यते। स चेक्षण- विरोधी लक्ष्यमाणः पदार्थो नेक्षिष्ये इत्यनीक्षणसङ्कल्पः, तस्येक्षणविरोधित्वात् । सत्यापि पदार्थान्तरस्येक्षणविरो- धित्वे सर्वक्रियाऽविनाभूतत्वेन सङ्कल्पस्यैव लक्षणात् । प्राधान्यवशेन सम्भवत्येवानस्मिन्नित्यादि । न च प्राधान्यपरिभाषा- कल्पनमेव दोष इति शङ्यम्, निर्निभागपदतत्त्ववादिभिः परैरपि पूर्वोत्तरपदार्थप्राधान्योक्तेः पारिभाषिकस्यैव वाच्यत्वात् । यद्वा यथा केवलं तिष्ठतेर्गतिनिवृत्यर्थकत्वेऽपि प्रतिष्ठते' इत्यत्र पशब्दद्योतित- शक्तिकेन तेनैव गत्तिबोध्यते, तथैव नसो द्योतकत्वाश्रयणे ब्राह्मण- पदेनैव ब्राह्मणान्य इति प्रतीतेः सम्भवाते निर्वाह इति नास्माकमे- तत्यतीतिनिर्वाहाय पूर्वपदार्थप्राधान्यमवश्यादरणीयम् । दर्शितं चास्य पक्षस्य भाष्याभिप्रेतत्वं कैयटेन । अस्मिश्च पक्षे ब्राह्मणशब्दो. ऽन्यमानं वदति, अधर्मशब्दो विरोधिमात्रं वदतीति इलोकार्थ इत्यलं प्रसङ्गचिन्तया। स्मरणमिति । तदन्येत्यादि शङ्कावादिदर्शितं दृद्ध- स्मरणमित्यर्थः । अविधेयत्वादिति । विध्ययोग्यत्वादित्यर्थः ।