पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदापौरुषेयत्वकथनम् । इन्द्रियाणां सत्सम्पयोगे पुरुषस्य यबुद्धिजन्म तद्धि प्रत्यक्षमिति । प्रत्यक्षपूर्वकत्त्वाच्चानुमानादेर्न तद्ग्राह्यत्वमपि वेदार्थस्य सम्भव- तीति नोक्तोपाधिशून्ये वेदे प्रमाणत्वाभिमते धाक्यत्वहेतुः पौरु- पेयत्वं साधयितुमलम् । स्यादेतत् मानान्तरगृहीतार्थकं प्रमाणवाक्यं पुरुषेण निर्मातुं शक्यं नान्यदिति प्रमाणवाक्यं स्वपौरुषेयत्वाय स्वा- ग्राहकं मानान्तरमपेक्षते न तज्जन्यत्वमपि अतः पौरुषेयम- माणवाक्यत्वं स्वानुपजीविमानान्तरग्राह्यार्थकत्वमात्रेण नियत- मिति ईश्वरीयनित्यप्रत्यक्षग्राह्यत्वाद्वेदार्थस्य सम्भवति पौरुषे. यत्वं वेदस्येति । तन्न । वेदप्रामाण्याधीनसिद्धिकेश्वरीयज्ञान- मूलकत्वेन वेदप्रामाण्यकथनेऽन्योन्याश्रयात्(१) । अथ क्षित्यादि सकतकं कार्यत्वादित्यनुमानान्नित्य- ज्ञानवदीश्वरसिद्धौ तदीयज्ञानमूलकत्वेन वेदमामाण्यं सेत्स्यती. ति चेत् ? न, यादृक्साध्यसम्बन्धोदृष्टान्ते हेतोः क्लृप्तः ताहगेव साध्यं हेतुना सिध्यतीति अनित्यज्ञानवत एवं क्षित्यादिकर्तुः सिद्धौ तदीयज्ञानस्यापि मूलप्रमाणं विना- पामाण्यासिद्धेः । नच जन्यज्ञानवतः शरीरित्वापत्तेः तत्र च मानान्तरविरोधान्नित्य ज्ञानवत एव कर्तुः सिद्धिरिति शक्यम् । जन्यज्ञानवत्कर्तृकत्वव्याप्तप्रकृतहेतोरेव तत्सिद्धिबाधकत्वात् । अथ दृष्टान्तदृष्टजन्यज्ञानवकत्रसम्भवे हेतुप्रभवा कर्तृसामान्यसिद्धिनित्य- ज्ञानवन्तं आक्षिप्य पर्यवस्थतीत्युच्यते, तर्हि उष्णाग्निनियतेन .. (१) घेदवाक्यं प्रमाण बुद्धवाक्यं न प्रमाणमित्यर्धजरतीयन्यायप्र- समाच-वेदानां ईश्वरोचरितत्वेनेश्वरज्ञानमूलकत्वेन प्रामाण्याभ्युपग- मे बुद्धस्यापश्विरावतारत्वेनास्तिकैरङ्गीकारात् तज्ज्ञानमूलकस्य- बुद्धागमस्य कथमप्रामाण्यं वक्तुं शक्यते उभयोस्तुल्यत्वादित्य- पि बोध्यम् ।