पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- इदानीन्तने सिद्धसाधनापत्ते: दृष्टान्तत्वेन तदुपन्यासानुपपत्तेश्च अतो. ऽतीतकालस्यैव पक्षता ज्ञेया । नच पूर्वानुमानवशेनामुष्य सप्रतिसा- धनत्वं स्मर्तव्यास्मरणबाधितत्वात्तस्य, युक्तं हि ऊहस्य पौ- रुषेयत्वं नावमिकन्यायसहकृतात् “यद्योन्यां गायति तदुत्तरयो- यति" इत्याद्यतिदेशवचनादुत्तराधारूढगानकर्त्तव्यतायास्तत्म- मेषभूतायाः कर्तृप्रत्ययमनपेक्ष्यैव सिद्धेः अनादरेणैव कत्रस्मरण- सम्भवात् अपौरुषेयत्वे च आम्नानत एव उत्तराय॒क्षु गान- सिद्धावतिदेशवचोवैयापत्तेः वेदप्रमेयस्य तु यागस्वर्गसम्बन्धा. देस्तत्कर्तृप्रत्ययाधीनसिद्धिकत्वेनावश्यस्मर्त्तव्यस्य कर्तृनियतरूपे- णास्मरणाद्भवति तदभावनिर्णयः । किञ्च(१) पराभिमतानुमानं जन्यमानान्तरमूलकत्वेन सोपाधिकं यद्धि प्रमाणवाक्यं पौरुषेयं तत्ताडगेवेति नियमः । नच वेदार्थः प्रत्यक्षेण ग्राह्यः अविद्यमाने यागादौ शब्दान्तरादिगम्यवैजात्यस्य यागानुष्ठानानन्तरक्षणेऽवि. द्यमानस्वर्गादौ तत्साध्यत्वस्य च प्रत्यक्षेण ग्रहीतुमशक्यत्वात् । तदुक्तं "सत्सम्पयोगे पुरुषस्येद्रियाणां बुद्धिजन्म सत्सत्यक्षमानिमि- तं विद्यमानोपलम्भनत्वात्" इति(२) । विद्यमानोपलम्भनत्वे हेतुः (१) जै.सू. १ पा. ४ सू.। (२) वेदः पौरुषेयो वाक्यत्वादिति परकीयानुमाने जन्यमानान्तरमूलकत्वमुपाधिः यत्र यत्र पौरुषेयत्वं महाभारतादौ तत्र तत्र तद्ग्रन्थप्रतिपाद्यार्थतत्वं प्रमाणान्तरेण शा- त्वा तत्तदन्थप्रणयनात्तत्र जन्यमानान्तरमूलकत्वमस्ति साधनं तु वाक्यत्वं वेदेवस्ति तत्र च जन्यमानान्तरमूलकत्वं नास्ति तद- र्थस्य यागस्वर्गसम्बन्धादेर्यागादिनिष्ठस्वर्गसाधनत्वस्य वा एतद्वा. क्यं विहाय केनापि प्रमाणेन पूर्व कस्याप्यज्ञानात् तत्र अन्यमा- नान्तरमूलकत्वं नास्तीति साध्यव्यापकत्वेसतिसाधनाव्यापकत्वा- द्भवत्युपाधिः । तथा च वाक्यत्वं न पौरुषेयत्वप्रयोजकं किन्तु ज- न्यमानान्तरमूलकत्वं, न च तवेदेष्वस्तीति न तेनानुमानेन पौरुषेय. त्वसिद्धिरित्यर्थः ।