पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

वेदापौरुषेयत्वकथनम् । क्तेः । न च पौरुषेयवाक्यप्रामाण्यस्य तत्कर्तृप्रत्ययाधीनसिद्धिक त्वात् अवश्यस्मर्चव्यक रस्मणं दृश्यादर्शनवत् अभावग्राहक- मिति शक्यम् । छन्दोगप्रसिद्धस्योहग्रन्थस्य कर्तुरस्मरणेनापौरुषेय. त्वप्रसङ्गात् । न चेष्टापत्तिः आम्नायादेव विशेषनिर्णये किमुत्ता रयोर्योनिवर्णवशेन गेयमुत्तरावर्णवशेन वेत्यादिविचारानुत्थाना- पत्तेः(१) सत्यपि सर्वज्ञप्रणीतत्वेन तुल्यत्वे "तद्विदांच स्मृतिशील" इति वेदवित्स्मृतित्वेन स्मृतीनां प्रमाणत्वात् तासां दौर्बल्यं से- स्यतीति वदन्तं प्रत्याह । वेदस्येति । सर्व निखिलशाखागोचरं न तु निखिलकालवर्ति पक्ष इति विवक्षित (१) प्रथमतन्त्रे ९ अध्याये २ पादे ९ अधिकरणे विचारितम् इदं श्रूयते रथन्तरमुत्तरयोर्गायति यद्योन्यां गायति तदुत्तरयोर्गायति । तत्र कयानश्चित्र आभुवत् इत्यसावृक्योनिः तस्यामृचि कया इत्य- क्षरद्वयमाद्यो भागः नश्चित्र आभुवत् इत्यक्षरषट्कं द्वितीयो भागः त. स्मिन्भागे द्वितीयाक्षरे चकारस्योपरितनमिकारं विलोप्य तस्य स्थान आयीभावमाम्नाय गोतिर्निप्पादिता । कस्त्वा सत्योमदानामित्यनन्तर- भाविन्युत्तरा तस्यां योनिन्यायेन चतुर्थाक्षरे तकारस्योपरितनं यकार. मोकारं च लोपयित्वा तयोः स्थान आयीभावः । अभीषुणः इत्य. सावपरोत्तरा तस्यामपि चतुर्थाक्षरे णकारस्योपरितनमकारं लोपयि. स्वा तस्य स्थान आयीभावः कर्तव्यः अन्यथा गीतिनाशप्रसङ्गात् इति प्राप्त ब्रमः नाऽत्र योनौ वर्णान्तरस्याऽऽगमः कृतः । किं तर्हि ? विद्यमान एव चकारस्योपरितन इकारः सामप्रसिद्धया प्रक्रियया वृद्धः सन् ऐकारो भवति, तस्य सन्ध्यक्षरत्वादकारः पूर्वभागः इकारः उत्तरभागः तावुभौ विश्लेषेण गीयमानावायीभावं प्रतिपद्यते तथा च सामगा आहुः “वृद्धन्तालव्यमायीभवति" इति । तथा सति चतुर्थाक्षरे नास्ति तालव्य इकार इत्यायीभावो न कर्तव्यः अभीषुणः सखीनामविता जरितॄणामित्येतस्यामुत्तरायां द्वादशाक्षरगतस्य रेफस्योपरितन इकार: पूर्ववदायी भवति । सोऽयमायीभाव उक्तरीत्या वर्णाभिव्यञ्जकन्वादुस- रागतवर्णनशेन कर्तव्यः गीत्यर्थत्वाभावेन योनिक्रमे तेन विनाऽपि न गीतिविनश्यति अयं विचारो निरर्थक एव प्रसज्येतेति भावः ।