पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालकारसहितमीमांसान्यायप्रकाशे- नाम(१) "त्रयोवेदा अजायन्ते' इति श्रुतेश्च मन्त्रार्थवादसिद्ध- प्रलयकाले(२) प्रणष्टाध्येतृकपूर्ववेदस्य सर्गारम्भे सम्प्रदाया- घिममासम्भवेन पुरुषविशेषस्य तन्निर्मातृत्वकल्पनाया उचि. चत्वाच । वका यत्पतीतिमुद्दिश्य यद्वाक्यमुच्चारितं तस्य त- त्परत्वमिति लोकदृष्टतात्पर्यस्यापौरुषेयवाक्येऽसम्भवेनोपक्रमोपसं. हारादेर्वेदवाक्यगततात्पर्यनिर्णायकत्वकथनानुपपत्तेश्च । (३)शाब्द- ज्ञानप्रामाण्यस्याप्तवाक्यजन्यत्वाधीनत्वेन तदभावे शब्दोत्थज्ञानस्या- प्रामाण्यापाताच्च । नच समाख्यानं प्रवचननिमित्तं प्रवचनस्यानेकपु. रुषसाधारण्येनासाधारणव्यपदेशानिमित्तत्वात्(४) । न च कर्ब- स्मरणादपौरुषेयत्वं अस्मर्यमाणकर्तृकचिरकालिककूपादेस्तादृग्पस- शक्तित्वेन स्वतन्त्रतया पूर्वकल्पविलक्षणानुपूर्वीरचयितृत्वं सम्भवती वि देव साध्यते तथा च नापसिद्धान्तो नवा सिद्धसाधनार्थान्तरा- श्वास मीमांसकमते एतादृशस्वातन्त्र्यस्य कस्मिन्नपि पुरुषेऽन- (१) यथा यः पाकं करोति सपाचक इति समाख्यायते इति कस्य चित्पुरुषस्य पाचक इति संज्ञायां श्रुतायां श्रोतुर्भवति बोधोऽयं पाकं करोति तद्वत् काठकं कालापकं कौथुममित्यादिसमाख्यां दृष्ट्वा भवति लोकानां बोधः कठादिभिनिर्मिता वेदा इति । (२) प्रलयोत्तरं पुनः सृष्टिसमये पूर्वकल्पीयाध्यापकानामभावेन किमाश्रयस्य वेदस्य पुनरभिव्यक्तिः स्यादिति सर्वथा विनाश एवः प्रलयेऽङ्गीकार्यः पुनश्चेश्वरेण जगद्रक्षार्थ सृज्यते इति वक्तव्यम् । तथा च ईश्वरजन्यत्वं स्वीकर्तव्यमिति भावः । (३) वेदवक्तुः स्वतन्त्रस्याभावे तदुच्चरितत्वरूपतात्पर्या ऽस- म्मवादुपक्रमोपसंहारादिभिर्वेदतात्पर्यनिर्णयनिरूपणस्यासङ्गतत्वापत्तिः एवं वक्तृविशेषजन्यत्वाभावे गुणघटितसामग्रीजन्यत्वाभावेन वेद जन्याचे प्रामाण्यमेव न स्यात् इति भावः । (४) यथाऽनेककारणसमवधानजन्माऽप्यकुरो नादिभिर्व्यपदि किन्तु शाल्यादिमिर्चपदिश्यते शाल्यकुरो यवाङ्कुर इति । त तो बीजस्थासाधारणकारणत्वात इतरेषां च साधारणत्वा- मंत्रापति भावः।