पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४२ भाहालङ्कारसहि तमीमांसान्यायप्रकाशे- नञ् प्रतिषेधकः योगे तु न नत्रः प्रतिषेधकत्वम् । तयोरभिधायकत्वात्। यथाऽहु:- 'नामधात्वर्थयोगी तु नैव S: 1 (१)वदत्यब्राह्मणाधविन्यमात्रविरोधिनौ ॥ इति । अतश्च नेक्षेत इत्यत्र नत्रो धातुयोगानञीक्षतिभ्या- मीक्षणविरोधी कश्चनार्थः प्रतिपाद्यते । ननु तदन्यतविरुद्धतदभावेषु नम्' इति सत्यपि स्मरणे नत्रः स्वसंसृष्टाभाव एव शक्तिः लाघवात, न तु तदन्यतबिरुद्धयोः, तयोरभावघटित्वेन गौरवात, अनेकार्थत्वस्य चान्याय्यत्वात् । अतो नत्रो धातुयो- गे धात्वर्थाभावबोधकत्वमेव, न तु तबिरुद्धार्थबोधक- द्वोध्यमर्थमाह-वदतीति । अत्राह्मणाधाविति । नञ् क्रमे- णान्यमानं विरोधिमात्रं च पदतीति योजना । नन्वब्राह्मण इति पदाद्राह्मणान्य इति प्रतीत्याश्रयणे पूर्व- पदार्थप्राधान्यं नसमासे समाश्रितं स्यात् । नच तद् युक्तम् । केवलना इव नब्समासस्यापि लिङ्गसङ्खधानन्धयप्रसङ्गात् अनेकमित्येकवचनानुपपत्तेश्च । असर्व इत्यादावपि गुणभूतस्य सर्वादः सर्वनामसज्ञाऽभावेन तत्प्रयुक्तस्य स्पैस्मादित्यादिकार्य- स्यासम्भवापत्तेश्च । अतो नन आरोपितार्थत्वमाश्रियोत्तरपदार्थ- प्राधान्याश्रयणेनारोपितो ब्राह्मण इत्यर्थो वक्तुमुचित इति चेत् । न, 'त्वयाऽऽरोपितमिह रजतं वस्तुतस्त्वरजतमेतद्' इति प्रयोगानुपपत्त्यापत्तेः । न कस्मिन्नेव वाक्ये वस्तुतस्त्वारोपि. (१) वदतोऽब्राह्मणेतिपाठः ।