पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमः पयुदासकत्वम् । तशब्देन कर्तव्योऽर्थ उच्यते । अतश्च स्नातकस्य क- र्तव्यार्थानां वक्तव्यत्वेनोपक्रमात 'किंतत कर्तव्यम्' इत्य- पेक्षायामग्रे 'नेक्षेतोयन्तम्' इत्यादौ कर्त्तव्य एवार्थो वक्त- व्यः, आकासिताभिधानात् । अर्थान्तरोक्तौ च पूर्ववा- क्यस्य साकासवेनाप्रामाण्यं स्यात् । न हि कर्तव्या- थस्य वक्तव्यत्वेनोपक्रमे ऽग्रे च तदनभिधाने पूर्ववाक्य- स्य निराकासत्वं सम्भवति। न च साकाङ्क्षस्य प्रमाणत्वम् , गौरश्वः पुरुष इत्यादावपि प्रसङ्गात्। किं च 'नेक्षेत इत्य- स्योपक्रमेण प्रतीयमाना एकवाक्यता च न स्यात, अ- र्थान्तरोक्तेः । अतश्चास्मिन्वाक्ये कश्चित्कर्तव्य एवार्थों वक्तव्यः । तदुक्तौ च न नञः प्रत्ययेन सम्बन्धो घटते। तत्सम्बन्धे कर्त्तव्यार्थोक्तेरनुपपत्तेः । प्रत्ययाच्चावता- रितो नञ् धातुना सम्बध्यते । तत्सम्बन्धे च न नत्रः प्रतिषेधकत्वम् । विधायकसम्बन्धेनैव तस्य प्रतिषेधक- त्वात् । प्रतिषेधकत्वस्य विधायकतिपक्षत्वात। नामधातु- कर्तव्योऽर्थ इति । आकररीतिमनुसृत्येदम् । वस्तुतो व्रतशब्दस्य सङ्कल्प एव वाच्यः । तथासत्येव केशान्निवर्त्तयीत, श्मश्रूणि वापयर्यात, अधः शयीत इत्यायनिषेधवाक्येषु कल्पमूत्रस्म- तिव्याख्यातॄणां सङ्कल्पलक्षणोक्तिनिर्वाहात् । अभिधानादिति । तल्लाभादियर्थः । साकाङ्कत्वन-अपरिपूर्णत्वेन ।। ननु 'तस्य व्रतम्' इत्यत्रैवानुष्ठेयविशेषः कल्प्योऽतआइ-कि- ञ्चति । नामधातुयोगिनोस्तुल्यन्यायत्वान्नामयोगिनो नमस्ताव- ५६