पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- चेन् । साध्विदं मन्त्रात्परम्परायातं मीमांसकवचः, यतोऽनुयाजे- तरविषयस्यापि सामा यशास्त्र स्थानुयाजलाधारण्येन तात्पर्य भ्रमादनुयाजेषु प्रसक्तस्य येयजामहस्य सम्भवपत्र निषेधः । नहि निषेधो वास्तरमाप्तिमेवापेक्षते, हृदे वहिनिषेधस्यापि तादृशमाप्ति सापेक्षत्वापत्तेः । नच शास्त्रीयनिषेधो भ्रान्तिप्राप्तस्य न सम्भ- वतीति राजाज्ञाऽस्ति । स्वीकृतं च कुण्डगोलकयोः श्राद्धभोजननिषेश्स्य भ्रान्ति प्राप्तविषयत्वं कश्चित्स्मृतिव्याख्यातृभिः । नच 'सवणेभ्यः सवर्णासु जायन्ते हि सजातयः' इति शास्त्राद्राह्मणाड्राह्मण्यां व्यभिचारो- त्पन्न योरपि तयोब्राह्मण्याद्वास्तव एव श्राद्धभोजनप्रसङ्गोऽस्तीति वाच्यम् । 'विन्नास्वचः विधिः स्मृतः' इति वाक्य शेपादू हायामेव सवर्णायां सवर्णोत्पत्तिप्रतीतेः । स्वीकृतश्च भ्रान्तिपातपर्युदासोऽपि प्रवराध्यायविद्भिः, यथा 'एक एव ऋषिवित्तवरेष्वनुवर्त्तते तावत्समानगोत्रत्वमन्यत्र भृग्वङ्गिरसां गणादिषु' इति । अत्र ह्यविवाहपयोजकसमानगो. त्रत्वलक्षणं भृग्वङ्गिरोगणपयुदासविशिष्टं बोध्यते । सन्ति च द्विविधा भृग्वशिरोगणाः समर्यपत्यभूता जमदग्न्यादयः केव- लाश्च हारीतादयः । तत्र सप्तानां सप्तर्षीणायगस्त्याष्टमानां यदपत्यं तद्द्वात्रमित्याचक्षत इति गोत्र लक्षणाक्रान्तेष्वाद्यगणेषु सत्यामपि समानगोत्रत्वप्रसक्तौ न पर्युदासस्य तद्विषयत्वम् , तत्पयोजनभू- ताया विवाहसिद्धर्जामदग्न्यानां सर्वेषामविवाह इत्यादिशाखा. न्तरेण प्रतिबन्धात् पयुद्धासवैयापत्तेः । द्वितीयगणेषु तु पर्युदासप्रयोजनं सम्भवति भृग्वङ्गिरोगणेषु पञ्चप्रवरिणां प्र. चरत्रयसाम्येन त्रिपवरिणां प्रवरद्वयसाम्येनैव समानप्रवरत्वमि- तिनियमन कस्यानुवृत्तौ समानप्रवरतया शास्त्रान्तरेण वा विवाहा- प्रतिबन्धात् , तथाऽपि तु तेषुः समानगोवत्वाप्रसक्तिः, सप्तय- , ,