पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नञः पर्युदासकत्वम् । ४३५ क्षणार्य पर्युदासमन्तरेणानुपपद्यमानपदान्तरेणैकवाक्यतापात्रं नि- मित्तत्वेन विवक्षितमिति चेत्, सायकवाक्यतैव पहुंदामानिमित्तल्वेन वक्तुमुचिता न विकल्यामक्तेः पृथनिमित्तत्वोपन्यासः सङ्गच्छते । तथाहि 'यजतिषु ये यजामई करोति नानु याजेयु' इत्यत्र यदि नञ् न स्यात्तदा यजतिष्वनुयाजेष्वितिविरुद्ध विभक्तिरहिताभ्यां नामभ्यां तावदभेदान्वयबोधः स्यात् 'नीलो घटः' इतिन् । यश्चाभे. दबोधकः समभिव्याहारस्तत्र श्रूयमाणनञ् भेदमेव बोधयति यथा. 'घटो न नीलः' इति । एवं च 'नानुयाजेषु' इति नओ व्युत्पत्तिसिद्धभेद- बोधकन्वाथयणकवाक्यो सम्भवति न पदद्वयानुपरकल्पनापूर्व- कं 'नानुयाजेषु ये यजामहं करोति' इति पृथवाक्यकलपनमुचितमि- खेकवाक्यतानुरोधेनहापि पर्युदाससिद्धिः । नचेह विकल्पप्रमक्तिः, 'दधि ब्राह्मणेभ्यो दातव्यं कौण्डिन्याय न दातव्यम्'इनि न्यायेन विशेषशास्त्रेण सामान्य शास्त्रस्य वाघोपपत्तेः । नचेहापि कौण्डिन्य- भेदबोधका नत्रः शक्यं, कौण्डिन्यपदस्य विरुद्धकवचनावरुदत्वा- त्। 'न महतो राज्ञः इत्यत्र राजनि महद्भेदप्रतीतिवत् 'न महतां राज्ञः' इत्यत्रापि तस्मिन्महद्भेदप्रतीतिर्जायते । न च ‘एको न द्वौ' इतिवद्विरु- द्धविभक्तिकपदसममिव्याहरेऽपि नबो भेदवोधकत्वमस्त्विनि शल्य- म् । तथासति द्वितीयस्य दातव्यमित्यस्य चयापत्तेः । यदि चेदृश- सामान्यविशेषविषयेऽपि विकल्पापत्तिः,नदा 'रात्रौ श्राद्धं न कुर्वीत' 'न दीक्षितो जुहोति' 'अयज्ञिया वै माषाः इति निषेधेभ्योऽपि कथं न विकल्पापत्तिः । नचैतेषु पर्युदासोऽभ्युपगम्यते । नच सम्भवतिारात्री. तरकाले श्राद्धकर्तव्यताज्ञानेऽपि रात्रिश्राडे दोषाभावापतेः। दीक्षि- तान्यस्य होमकर्तव्यताज्ञानेऽपि दीक्षितेन कृते होमे क्रना गुण्याभा- बापत्तेः । माषभिन्नस्य यज्ञसाधनत्वावगमेऽपि माषाणां प्रतिनिधित्वे वैगुण्याभावापत्तेः । तस्मादनुयाजेषु न विकल्पप्रभक्तिर्येयजामहस्य सामान्य शास्त्रस्यानुयाजेतरविषयत्वे प्रसत्य भावान्निषेधानुपपत्तिरिति --