पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायप्रकाशे- उकम्, स्वर्थेनान्वयः। तच्च बाधकं दिविधम् । 'तस्य व्रतम्'इ- भिनेन केनापीनि द्रष्टव्यम् । तच्चेति । नन्वयुक्तमेतत् यतोऽस्ति तृती- यमपि पर्युदासनिमित्तमाकरसिद्धम् तथाहि-'न दीक्षितस्यान्नमश्नी- यात्' इति तस्मादीक्षितस्याविज्ञातस्याक्रीतराजकस्यान्नमभोज्यं भ- वति' इति च यथाक्रम अय्यामथर्ववेदे चाम्नातस्य वाक्ययस्य दीक्षितान्न भोजननिषेधार्थत्वप्रनीती तुल्यायामपि 'क्रीतराजको भो. ज्यानः, संस्थितेऽनीपोपीये दीक्षितस्यानमनीयाद्' इति शास्त्रीय- विधियस्य केवलनिषद्यान्वयासम्भवाद्राजक्रयावधिनिषेध एकेन शारणाववैदिकेन बोध्यते, अपरण च त्रयीमतनाग्नीषो. मीयसंस्थाविधिर भोजनमल्पविधिः पयुदामाश्रयणेनति विरो- धाधिकरण वार्तिके अत्रावधि पसङ्कर्तिनानुपपत्ति- रेव पर्युदासनिमित्तत्वेन प्रतीयते, अनः फ्युदासनिमित्तद्वविध्य- नियमो न सङ्गच्छते । नचापदनापद्विषयत्वेनापि वाक्यद्वयव्यव- स्थाया वार्तिककृदुक्तत्यानेयं व्यवस्था बार्तिक कृत्संगतेति वक्तुं शक्यम् । पूर्वोपन्यस्ताया एतस्याः शास्त्रीयतुल्यकल्पनाबाधापा- दकतया वार्तिक कृदनभिप्रेतत्वस्थ न्याय सुधायामुपन्यासात् । नच 'तस्य व्रतम्'इत्युपक्रमादेव पर्युदास इति नियमः। चातुर्मास्यव्रतान्युपे. याद्' इत्युपक्रम्य पठितेषु न मध्वनीयान मासमश्नीयाद्'इत्यादिष्व- पि तदभ्युपगमस्यावश्यकत्वात् । न चोपक्रयाविरोधादेव पर्युदास इत्य पिनियन्तुं शक्यम्। एकादश्यां न भुञ्जीत पक्षयोरुभयोरपि । वनस्थ- यतिधर्मोऽयम्' इत्यत्रोपसंहारगतधर्मपदानुरोधेन पूर्वार्दै हेमाद्रिणा पर्युदासाश्रयणान् । यथाह सः 'ग्राहकगृहीतो निषेधो धर्मो भवेदपि, न पुनः स्वतन्त्रो निषेधस्तथा भवतीति श्रेयः साधनत्वरूपस्य धर्म- स्वस्य क्रत्वर्थनिषधेषु सम्भवेऽपि स्वतन्त्र निषेधष्व संभवः' इति धर्म- पदानुरोधेन पर्युदास आश्रयणीय इति तदाशयः, अतः कथमु. पक्रमविरोधस्यैव पर्युदासनिमित्तत्वम् । अथोपक्रमग्रहणमुपल-