पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नमो निवर्तनाप्रतिपादकत्वम् । यन्मते इष्टसाधनवं लिङयस्तन्मते लिड्समष्टो नञ् इष्टसाधनत्वप्रतिपक्षमनिष्टसाधनत्वं गमयति । सर्वथाऽपि तु नत्रः प्राधान्यात्प्रत्ययेनान्वयः । यदा तु तदन्वये किंचिढ़ बाधकं तदाऽगत्या धा. लीयनञो विध्यन्वयन तद्विपरीतार्थबोधकत्वं परशङ्कया द्रढयति घन्मत इति । नचेष्टसाधनत्वाभावबोधक एव नञ् तन्मते कुतो न स्यादिति शङ्ख्यम्, प्रत्यक्षसिद्धस्य कलञ्ज भक्षणादिगतेष्टसाधनत्व. स्याभावबोधनासम्भवात् । नापीष्टांश एव प्रतिपक्षवोधनत्वं कुतो नो- पन्यस्तमिति शङ्काम् , तस्यापदार्थत्वनापरपदार्थान्वयानहत्वात् । ननु कलञ्जभक्षणाभावस्येष्टसाधनत्वमेव लिडोच्यताम् , इष्टं च नित्यवि- धाविध प्रत्यवायपरिहारः,तत्साधनत्वं च तदभावप्रयोजकाभावप्रति- योगित्वात्मकं सुवचमभावेऽप्यत आह सर्वथापि विति । प्रा. धान्यान्-धात्वर्थ प्रति प्रत्ययार्थभावनाया एव प्राधान्यनियमान् । अयमाशयः-'कृतिसाध्येष्टमाधनत्वं विध्यर्थः' इति मते तावत् पर्यागादिधात्वर्थविशेष्पकतत्पकारकबोधस्य विधावभ्युपगमान्नि- पेधस्थलेऽभावविशेष्यकस्तत्प्रकारको बोधो वाच्यः, नच स शक्यो वक्तुम् , अभावे यागादिवत्कृतिसाध्यत्वाभावात् । 'इष्टसाधनत्वमा विध्यर्थः' इति पक्षे तु यागकृतिरिष्टसाधनमित्येव विधौ बोधः स्वी- कार्यः । 'धात्वर्थगतप्रकारतानिरूपितविशेष्यतासम्बन्धेन प्रतीतो भा- चनात्वावच्छिन्नाख्यातजन्योपस्थितिः कारणम इति व्युत्पत्तेलडादिषु क्लप्ताया लिङादिष्वपि सति सम्भवेऽनुसरणीयत्वात्, ततश्च तद्शा- देव न नबर्थे भक्षणाद्यन्वयः,अतः कथं 'भक्षणाभाव इष्टसाधनम् इति बोधः स्यात् , यदि च स्यात् वाक्यशेषशून्यनिषेधानां विश्वजिन्न्या- येन काम्यत्वं स्यादिति । धात्वर्थेनेति । उपलक्षणमेतत्, विधि-