पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३४ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- एवं च विधिनिषेधयोभिन्नार्थत्वं सिद्धं भवति। हननादि- वर्जनकर्त्तव्यतावाक्यार्थपक्षे तु कर्त्तव्यताया एवोभयत्र प्रतिपाद्यत्वात्तयोरेकार्थत्वं स्यात् । तच्च न युक्तम् । यथाहु:- 'अन्तरं यादृशं लोके ब्रह्महत्याऽश्वमेधयोः । दृश्यते तादृगेवेदं विधानप्रतिषेधयोः ॥ इति । तथा 'फलबुद्धिप्रमेयाधिकारिबोधकभेदतः । पञ्चधाऽत्यन्तभिन्नत्वाद्देदो विधिनिषेधयोः ॥ इति । ना च निवृत्तिरिति, ततश्च विनैव शक्त्यन्तरं निवर्तनाप्रतीतिः स- म्भवतीत्यत आह एवं चेति । च एवार्थे । निवर्तनागो. चरशस्यन्तर सवेत्यर्थः । कर्तव्यता-विध्यन्वयिकृतिविषयता, तस्या वाक्यार्थत्वम्-तात्पर्यविषयत्वमिति यावत् । भवतु कर्तव्य- ताप्रतिपादकत्वनैकार्थत्वं कृत्यवच्छेदकभेदादेव तया/दो भवेदत आह तच्चेति । प्रतिषेधादेत्र कर्तव्यार्थतीत्युपपत्तौ 'नेक्षेत' इत्यस्य प्रतिषेधभूतस्यैव तस्य व्रतम्' इत्य नेनै कवाक्यत्वोपपत्तेश्चातु- र्थिकप्रतिषेधत्वपरित्यागेन सङ्कल्पलक्षणाश्रयणं नोपपद्येत, उपप येत चार्थवादशुन्येयु 'न कलञ्ज भक्षयेद्' इत्यादिपु पाष्टन्यायः निरस्तमपि विश्वजिन्न्यायन काम्यत्वं परोपसर्जत्वेनोपस्थितस्य प्रकृत्यर्थस्य नअर्थोपसर्जनत्वकल्पने निर्हेतुको व्युत्पत्तिविरोध- थापद्यतेत्याशयः । तादृक्-औपाधिकम् । फलेति । यद्यपि बुद्ध्यादिभेदः परस्यापि कथञ्चित्सुवचनः, तथाऽपि पाटन्याय- सिद्धमिष्टानिष्प्राप्तिपरिहारफलत्वेन विधिनिषेधयोभिन्नफलत्वं धि- धिनिषेधयो त्यन्तभेदं विना सम्भवतीत्याशयेनेदम् । निषेधस्थ.