पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४३२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- लोच्य तेनोत्तरपदार्थप्राधान्यबाधप्रसक्तः। उपपादयिष्यते चैतत् प्रेका रान्तरेणाप्यवसरे, अता नत्र एव निवर्तनाचाचित्वम्, एवं च 'खपुष्पं नास्ति' इत्यादिवाक्यगतनास्तीतिपदाभिप्रायां दृष्टान्तग्रन्थोऽपि सङ्ग. क्छने,न छत्र खपुष्पाभानो ज्ञाप्यत इति शक्य वक्तुं, असत्पतियोगि- काभावानभ्युपगमात्, किन्तु अलीकापरपर्यायमसदेव ज्ञाप्यते, तत्र शब्दजन्यप्रतीतिविषयत्वस्यावश्याभ्युपेयत्वात् । नच निधेषु प्रवर्त. नाया लिङर्थत्वोक्तिः कथमित्यपि साम्प्रतम्।स्वगतद्वेषस्यैव हननाय. नुकूलस्य प्रवर्तनात्वेनानुवादसम्भवात् , 'यं मां द्वेषजननेनानिष्टका. रित्वादिप्रत्ययो हनने प्रवर्तयति,तं भामेष निवर्तयति'इति प्रतीतः । नच प्रवर्तनायां परगामित्वमपि लिडादिवाच्यकोटिनिक्षिप्तं येन स्वगतद्वेषादेः प्रवर्तनात्वेन ततः प्रतीतिनोपपद्यत, प्रवर्त्तनाश्रयम- तीतेर्मानान्तरलभ्यत्वस्य त्वयाऽप्युपपादनात्, अनुवादस्य तदधी नत्वात् । उक्तं च वार्तिके प्रत्ययसम्बन्धानुगृहीतशक्तिरभावमात्रा. भिधानादभ्यधिकलब्धव्यापारोन विध्यर्थमपि पाद्यर्थप्राप्तं पति- षिध्य चरितार्थ' इति । अत एवाकृत्यधिकरण निपातानां द्योतक- स्वोक्तिः सम्भविद्योतकत्वनिपातान्तरविषयत्वेन नेया । यद्वा नात्र निवर्तनाप्रतीतिवेलायामनुवाद्यत्वेन प्रतीत्यै प्रवर्तनायां लिङर्थत्वो- पन्यास :,किन्तु परे यथा 'भूतलं घटो न,भूतले घटो न' इत्पादो भेद- संसर्गाभावतीत्योयवस्थायेयाशसमभिव्याहारो ययोस्तादात्म्यं संसर्ग चा बोधयति नसहितस्तादृशस्तदन्यतरधर्मिप्रतियोगिक भेदं संसर्गाभावं च यथाक्रमं बोधयतीति व्युत्पत्तिमङ्गीकृत्य तर्कित नसभावाङ्गीकारेण बदन्ति-'भूतलं घट इति समभिव्याहारस्तादृशा- स्य बोधक' इति तथा यादृशसमभिव्याहारः प्रवर्त्तनां यद्गोचरां बोधयति नहितस्तादृशस्तद्गोचरां निवर्तनां बोधयतीति व्युत्पत्तिमङ्गीकृत्य तर्कितनअभावाभ्युपगमेनेष प्रवर्तनायां लिडर्थ- त्वोपन्यास इति बोध्यम् । प्रकारान्तरेणापि निषेधेषु प्रवर्तनानु- -