पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- पि वाक्यार्थरूपा भावना विषय एवेति न्यायसुधोक्तेश्च । ततश्चाव- श्यकल्प्ये शस्यन्तरे विषयविषयिणोः समानाभिधानश्रुत्वाऽन्वय- लाभाय विधावेव तत् स्वीकार्य, नतु वाक्याय तदन्वयापादको नजि शक्त्यन्तरस्वीकार उचितः, अतो नबश्वेत्यादिर्गमयतीत्यन्तो ग्रन्थोऽयुक्त इति चेत् । मैवम् । यद्यपि विरोधिबोधकत्वं नओ न स्वाभाविकम् । 'तत्मादृश्यमभावश्च तदन्यत्वं तदल्पता । अप्राशस्त्यं विरोधश्च नबर्थाः षट् प्रकीर्तिताः' । इतिवृद्धवाक्ये निर्दिष्टसादृश्पाद्यर्थान्तरवद्विरोधस्याप्य भावघ. टिनत्वेन लाघपादभावगोचरक्लपशक्त्यैव प्रतीतिनिर्वाहे शक्त्य- न्तरानाक्षेपात् अग्रिपग्रन्थविरोधाच्च, तथाऽपि प्रकृतनिषेधग- तनमो निवर्तनाभिधायित्वाभिमायेण सङ्गच्छत एव ग्रन्थः । यथा- हि पङ्कजपदानन्तरं जायमानपद्मत्वप्रकारकप्रतीतेः पङ्कशब्दा- दिगतक्लुप्त शक्त्या लक्षणया वाऽनिर्वाहात्तन्निर्वाहार्थं शक्तिः कल्प्यते एवं निषेधवाक्यश्रवणानन्तरं जायमानाया निवर्त नात्वेन निवर्तनाप्रतीतेः क्लृप्तशक्त्या लक्षणया वा निर्वाहासं. भवादवश्यं शक्त्यन्तरं कल्पनीयम् । नहि विरोधवनिवर्तनात्वमभाव- घटितं येन तद्वदेव प्रतीतिनिर्वाहः शङ्येत, तन्नित्तेरपि विजाती- ययनात्मकत्वात्।तच्च शक्त्यन्तरं न लिङगदिनिष्ठम्, तत्र हि न लित्वा. येव शक्ततावच्छेदकं विधिवाक्यगतलिङोऽपि निवर्तनाप्रतीत्याप- तेः । द्योतकनजस्तत्राभावान्न सेति चेत् ? तर्हि नविशिष्टलिक्वं शक्ततावच्छेदकं ब्रूहि । व्युत्तरहरतित्वमिव क्रीडायाः।नहि शब्दान्तर- गतशक्ततावच्छेदकत्वादन्यद् द्योतकत्वं शक्यनिर्वचनम् । तथाऽस्त्विति चेत् । मा कुरु'इत्यादौ तथा प्रतीसनापत्तिः। अथाभाववाच्यव्ययविशि- प्रवर्तनावाचिप्रत्ययत्वेन निवर्तनाबाचित्वम् ? अभावः प्रवर्तनेति- शब्दाभ्यां निवर्तनाप्रतीतिनिवारणायाव्ययेति प्रत्ययेति च ग्रहण- 1