पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ववाचिना ना तद्विरोधिसङ्कल्पान्तरस्य च लक्षणामपेक्ष्य पर्युदासे समापतन्त्या निरूढायास्तदन्य लक्षणाया ज्यायस्त्वेनाकरस्थस्य पर्यु- दासानिषेधज्यायस्वव्यवहारस्यासम्भवापत्तेः । विध्यभावे च 'न कुर्याम्' इति सङ्कल्पस्य कर्तव्यताप्रतीत्यसम्भवान, 'न कुर्याम्' इति शब्दवद् 'न भक्षयेद्'इसस्यापि निवर्तकत्वासम्भवापत्तेः । किश्चा- चाराधिकरणे 'न ब्राह्मणं हन्याद'इत्यत्र ब्राह्मणगतपुंस्त्वावि. वक्षाप्रदर्शनार्थस्य- 'यो ब्राह्मण इति हाक्ते हननप्रतिषेधतः । ब्राह्मणे प्रतिषेध वा लिई नान्यद्विधीयते' इति श्लोकस्य विवरणार्थः प्रतिपधविधिपरो हि विधायक इत्या. दिग्रन्थो द्वेधा न्यायसुधायां व्याख्यातः-'नयर्थगोचरप्रवर्तनाबोध- को विधिः इत्यभिप्रायो, 'नसहितो विधिनिवर्तनाचोधकः' इति चेति । तत्र यद्यपि केवलनमो निवर्तनाभिधायित्वप्रदर्शनार्थस्योत्त- रवार्तिकस्य व्याख्यानावसरे न्यायसुधाकृतो नेकधाभिषायगोच- रोऽस्वरसो दर्शितः, तथैव निराकृतश्च तदभिप्रायगोचरो मूलेऽपि, तथाऽपि तत्रत्यद्वितीयव्याख्यामप्युपेक्ष्य कथं केवलनमो निवर्तना- भिधायित्वमुपन्यस्य ते यावता प्रवर्तनाबाचित्वेन विधेरभाववाचित्वे नत्रः क्लुप्तावशेषेण कस्य निवर्तनाबाचित्वं कल्प्यमित्याकासायां विनिगमनाविरहेणाभयोरेव तदाचित्वं कल्पयितुमुचितं पङ्कजपदश्र- वणानन्तरं जायमानपनत्वप्रकारकप्रतीतिवलेन कल्प्यमानशक्तः पङ्कपद जनिधात्वोः स्वीकारवत् । यद्वा विधिरेव निवर्तनावाच- को वक्तुमुचितः नओ निपातत्वेन घोतकत्वात् । यथाहुराकृत्य- धिकरणे- 'चतुर्विधे पदे चात्र द्विविधस्याथेनिर्णयः । क्रियते संशयोत्पत्तेनोपसर्गनिपातयोः । तयोराभिधाने हि व्यापारो नैव विद्यते । ..