पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२७ नमो निवर्तनाप्रतिपादकत्वम् । सम्बध्यते प्राधान्यात् , क्रयभावनयेवारुण्यादीनि । तत्रापि नाख्यातांशवाच्ययाऽर्थभावनया, तस्या अपि लिङ वांशवाच्यप्रवर्तनोपसर्जनत्वेनोपस्थितत्वात । अतो लिङ्-वांशेन नन सम्बध्यते । तस्य सर्वापेक्षया प्राधा- न्यात । नञश्चैष स्वभावो यत्स्वसम्बन्धिप्रतिपक्षबोधक- श्याभ्युपयेत्वाच्च । प्रवर्तनोपसर्जनत्वेनेति । उपपादितमेत- दधस्तात् । लिङ्त्वांशेनेति। तदर्थेनेसर्थः । नअश्चति । ननु यस्य शब्दस्य यत्र शक्तिस्तद्बोधकत्वमेव तस्य स्वभावः, नच नमः स्वसम्बधिप्रतिपक्षे शाक्तिरस्ति अनन्तरमेव तदन्यतविरुद्धयोन शक्यत्वस्य वक्ष्यमाणत्वात् , अतः कथमेतत्, कथं च नास्तीत्यत्र नत्रः प्रतिपक्षबोधकत्वे दृष्टान्तत्वं 'घटो नास्ति' इत्यादिस्थलेऽभावस्यैव प्रतीतेः, नहि प्रवर्तनाया निवर्तनेव सत्त्वस्य प्रतिपक्षभूतमसत्त्वं नाम भावान्तरमस्ति, कथं च निषेधान्तर्गतानां भक्षयेदियादिविधि- प्रत्ययानां प्रवर्तनाभिधायित्वमुपन्यस्तम् , यतो यत् 'कलशं भक्षयेद्' इतिरागप्राप्तानुवादेन नेति नत्रा तनिषेधो वोध्यते इति तव मतं, नच शब्दव्यापाररूपायाः प्रवर्त्तनाया रागतः प्राप्तिः सम्भवति, येन तदनुवादो वक्तुं शक्येत, कथं च विधिना नना च प्रतिपादितयोः प्रवर्तनानिवर्तनयोः परस्परविरुद्धयोरुद्देश्यविधेयभावेन मिथोऽन्व- यो निरूपयितुं शक्यः ?। अत्र भवदेवः-नात्र विधिरस्ति लिङादिप्रत्ययेन तु विधि- फलभूतो रागतः प्राप्तः कुर्यामिति सङ्कल्पो लक्ष्यते, विरोधिवचनश्च नञ् तद्विरोधिनं 'न कुर्याम्' इतिप्रत्ययमादधानो निषेधको भवतीति । तत्तुच्छम् । प्रवर्त्तनाबाचिना प्रत्ययेन कुर्यामितिसङ्कल्पस्य अभा-