पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

3 भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- नार्थस्याभावस्य धात्वर्थेनान्वये धात्वर्थवर्जनकर्त्तव्य- तैव सर्वत्र वाक्यार्थः प्रतीयते । ततश्च यथा यजेते- त्यादौ यागकर्तव्यता वाक्यार्थः, एवं निषेधेषु तत्तद्धा- त्वर्थवर्जनकर्त्तव्यता वाक्यार्थो न निवर्त्तना इति चेत ? । मैवम् । अव्यवधानेऽपि धात्वर्थस्य प्रत्ययार्थोपसर्जनत्वे- नोपस्थितस्य नार्थेनान्वयायोगात् । न ह्यन्योपसर्ज- नमन्येनान्वेति । मा भूद 'राजपुरुषमानय'इत्यत्र राज्ञ आनयनान्वयित्वम् । ततश्चाव्यवधानेऽपिं नार्थस्य न धात्वर्थेनान्वयः, आरुण्यस्येवैकहायन्या । नापि कल- आदिपदार्थैरन्वयः । तेषामपि कारकोपसर्जनतयोपस्थि- तत्वेन भिन्नपदस्य नार्थेनान्वयायोगात्, एकहायन्या इवारुण्येन । अतश्चान्येनान्वयायोगानार्थः प्रत्ययार्थेन स्मनो वर्जनस्य कथं कर्त्तव्यतेयपि शङ्काम् , योगक्षेमसाधारणकर्त व्यतायास्तत्रापि सम्भवात् । अवश्यं च रागपाप्तशास्त्रप्राप्तनिषेधेपु 'न खियमुषेयाद्' 'दीक्षितो न जुहोति'इत्यादिषु क्रत्वगत्वाभिमतेषु इत्थमेव स्वीकार्यम् । नचाविहितमङ्गं भवतीति प्रमिद्धेः कर्तव्यतयाऽ बोधितम्य च विहितत्वासम्भवात् । यच्च न कर्त्तव्यतया बोधितं, प्यङ्गं, तस्येतिकर्तव्यताकासालक्षणप्रकरणेन ग्रहणानुपपत्ते श्चेत्याश- येनाह एवमिति । धात्वर्थानन्वये दृष्टान्तसिद्ध्यर्थ कलञ्जाद्यनन्व- यमुपपादयति नापीति । राजपुरुषमित्यादिस्थल राज्ञान्वित स्य सत्तः पुरुषस्य कारकोपसर्जनत्वमित्युपपादयितुं भिन्नपदस्थे- ति । नतु नः सुबन्तसम्बन्धे नित्यसमास इति दुराशयेन, त- निराकरणस्याकर एव स्फुटत्वात, वक्ष्यपाणपर्युदामसिद्ध्या. अब- .