पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२४ भाहालङ्कारसहितमीमांसान्यायप्रकाश- प्रसज्येत । किञ्च वैश्वदेवेन यजेतेत्यत्र वैश्वदेवस्य देवतास- मर्पकत्वे 'यद्विश्वेदेवाः समयजन्त तद्वैश्वदेवस्य वैश्वदे- वत्व' मित्येतस्यार्थवादस्यात्यन्तमेव निरालम्बनत्वम् । एतदर्थवादाद्धि वैश्वदेवशब्दो विश्वेदेवकर्टकत्वेन क- मणि प्रवृत्त इति ज्ञायते । तदेवतासमर्पकत्वे विरुध्य- ते । किञ्च वैश्वदेवेन यजतेत्यस्य यागावीधले आमि- क्षाया नोत्पत्तिशिष्टत्वम् । तथा च तया न वाजिनं बाधितुं शक्यत इति उभयोरपि आमिक्षावाजिनयोर्या- गाङ्गत्वं स्यात् । तथा च विकल्पः स चाष्टदोष इति । तस्माद्वैश्वदेव्यामिक्षत्यत्रैव यागविधानम् । इतरस्य त्वनुवादत्वम् । अनुवादत्वे च यथा नानर्थक्यं तथो- क्तमित्यास्तां तावत् । तत्सिद्धं वैश्वदेवस्य कर्मनाम- 'वर्षामु रथकार' इत्यत्र योगाश्रयणगौरवमयादमन्तादिवाक्यप्राय- पाठवायवद्यागकल्पनागौरवमयादिहापि तद्वाघोस्तु, तत्राह । किश्चेति । स्यादेतत् देवतानां कर्मण्यनधिकाराद लोकस्य विश्वेदेवकतक- स्वस्य नमवृत्तिनिमित्त सम्भवतीति वैश्वदेव शब्दस्य कर्मविशेष्य- कपतीतिपरत्वज्ञापनमात्रपरोयमर्थवादा न देवताविधि प्रतिबध्नाति तत्राह । किंचति । न चोत्पत्युत्पन्न शिष्टबलावलाभावेपि गुणा- धिकरणोक्तबलावलान्तरसद्भावात्कथं विकल्प इति शङ्यं, इतरब- लावलानुरोधेन कर्मान्तरकल्पनाया आकरादृष्यत्वेनागत्या विकल्प