पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२३ नामधेयप्रकरणम् । किञ्च वैश्वदेवीशब्दो देवतातद्धितत्वादामिक्षान्तर्गतत्वे. न ब्रूत इत्युक्तम् । तत्र विश्वेदेवानुवादेन द्रव्यविधानं वैश्वदवीशब्देनैव कर्त्तव्यं, पदश्रुतेः । यथा भावनायां करणसमर्पणं धातुनैव क्रियते पदश्रुतेः न तृपपदेने- त्युक्तं भावार्थाधिकरणे तहत । तत्र च वषट्कर्तुः प्र- थमभक्ष' इति वदेकप्रसरताविरोधः । अतो यागानुवा- देनापि द्रव्यविधानार्थं वैश्वदेव्यामिक्षेत्यत्र यजिकल्पनं तावदवश्यं कर्त्तव्यम् । ततश्च पशुसोमाधिकरणन्याय- वैषम्यम् । 'ऐन्द्रवायवं गृह्णाती त्यत्र देवताविशिष्टग्रहण- विधानेन यज्यकल्पनात । यजिकल्पने च वैश्वदेव्या- मिक्षेत्यत्रैव द्रव्यदेवताविशिष्टकर्मविधानं युक्तं रूपद्रय- श्रवणात । एवं चाग्नेयोऽटाकपालः सौम्यश्चरित्यादि- वाक्यैवैश्वदेव्यामिक्षेत्यस्य वाक्यस्य प्रायपाठोरक्षितो भवति । अन्यथा हि तेषु सर्वेषु द्रव्यदेवतासम्बन्धक- ल्पितयागविधानमत्र च द्रव्यमात्रविधानमिति वैरूप्यं पयत्वादत आह । किञ्चति । अथैकप्रसरताभङ्गं यजिकल्प- नागौरवं च परिहत्तुं वैश्वदेवीपदेन विश्वान् देवानुद्दिश्या- मिक्षापदेन द्रव्यविधिक्रमः 'चतुरवत्तं जुहोती'त्यत्र वार्तिककुन्मते जुहोतेस्तदुक्तेः श्रवणाज्जुहोतिरासेचनाधिके स्या'दिति न्यायेन प्रक्षेपाधिकयागवाचित्वेपि विधेयताया विशेषणीभूतमक्षेपमात्रपर्यव- सायित्ववश्वदेवी पदस्य देवताविशिष्टद्रव्यवाचित्वेपि उद्देश्यतायाः सम्भवत्येव देवतामात्रपर्यवसायित्वमत आह । एवंचेति । ननु