पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२२ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- वैश्यदेव्यामिक्षत्यत्र यज्यकल्पन आमिक्षा किम- मुवादेन विधीयत इति वक्तव्यम् । विश्वेदेवानुवादेन विधाने द्रव्यस्य देवताङ्गत्वमेव स्यात् , न यागाङ्गत्वम् । तस्मिन् चित्रत्वविशिष्टस्त्रीत्वसम्बन्धस्य प्रवृत्तिनिमित्तत्वात् तस्य च शास्त्रान्तरादप्रतिपत्तेः । नच श्यन शब्दस्य तदापत्तिः तस्मिन् गौ गतयाऽभिधेय सम्बन्धित्वरूपादराभावात् उक्तश्वोक्तश्लोकव्याख्या वसरे लक्षणातो गोण्या विवेकसिद्ध्य तदादराभावो न्यायमुधा- कृता । भूमलिङ्गसमत्रायोदाहरणयोश्च तदादरसत्वन प्रसिद्धमपि गौणत्वं न स्वीकृतं, अतः सर्वमनवद्यम् । यद्वा येन शब्देन यत्र यो- गुणोविधित्सितः विध्यन्तरमापितं । निमित्तीकृत्य तत्र प्रवर्त- मानः स शब्दस्तत्मख्यन्यायगोचरो भवति वैश्वदेवशब्देप्यामिक्षा- यागीय देवताविधिरेव तत्प्रख्यशास्त्रं यथैव प्रात)मेऽप्राप्तस्याप्यग्नेः सायं होमे प्राप्तिमात्रेणाग्निहोत्रशब्दः सायंपातरनुष्ठीयपानकर्मणो. र्नामधेयं तथाऽष्टयागसमुदायमध्ये सप्तस्वप्राप्तानामपि विश्वेषां देवा- नां आमिक्षा यागे भाप्तिमात्रेण अध्यागसमुदायनामत्वं शक्यत एव वैश्वदेवशब्दस्य वक्तुं ज्योतिष्टोमशब्देपि तानिवाइति वाक्यशेषात् त्रिवृदादिस्तोमसमुदाय एव विधित्सितोगुणः 'ग्रह वा गृहीत्वा च- मसं बोनीय स्तोत्रमुपाकरोतीति शास्त्रं च तत्प्रख्यशास्त्रं चतुर्थ्या- स्वेतन्निमित्ता प्राप्तिमादाय ज्योतिष्टोमशब्दस्य नामवोपपादनात अर्थवादमप्पादाय शक्यत एव तत्प्रख्यन्यायोयोजयितुमित्यतिश- याय परमुभयार्थवादोदाहरणं मूले । चित्राशब्दे च चित्रत्ववि- शिष्टस्त्रीत्वस्य विधिसितगुणस्य विध्यन्तरादमा सेर्न तत्पख्यन्याय इति न का चिदनुपपचिरिति । नन्वभ्युदयेष्टौ मध्यमादिद्रव्योद्देशेन विहितस्यापि द्रव्यस्य न देवताङ्गत्वापत्तिर्यागगान्धितसम्बन्धस्यैव विधितात्पर्यवि- .