पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामध्यप्रकरणम् । ४२१ कृत्य सोमयागे प्रवर्त्तमानस्तत्प्रख्यशास्त्रान्नामधेयं भवति । एवं प्रकृतेपि द्रष्टव्यम् । पञ्चमप्रकारकल्पने प्रमाणामा- वात् । अत एव वैश्वदेवाधिकरणे वार्तिककारैखमपसं- हृतं तत्प्रख्यतयैव सर्वेषां नामधेयत्व मिति । यच्चोत्प- त्तिशिष्टगणवलीयस्त्वमुक्तं तद्गुणविष्यसम्भवे युक्त्य- भ्युच्चयमात्रम् । तत् सिद्धं तत्प्रख्यशास्त्रादैश्वदेवशब्द- स्य कर्मनामधेत्वमिति । नन पशुसोमाधिकरणे 'ऐन्द्रवायवं गृह्णाति इत्या- दौ न यजिकल्पनं सोमेन यजेते ति प्रत्यक्षयजिश्रुते- रित्युक्तम् । तेन न्यायेन वैश्वदेव्यामिक्षा'इत्यत्रापि य- जिकल्पना मास्तु । 'वैश्वदेवेन यजेते' इत्यत्र प्रत्यक्ष- यजिश्रुतेः, एवं चानेन वाक्येन देवताविशिष्टिकवि- धानमस्तु । तस्य च द्रव्याकाङ्क्षायां वैदश्वेदव्यामिक्षति द्रव्यविधानमस्तु, एवं च न वाक्यदयस्याप्यनुवादक- त्वम् ' नाप्यष्टौ हवींषीत्यनन्यगतिकलिङ्गविरोधो भवे- दिति चेत-मैवम् । शवयं, तस्य बाधितत्वात आहार्यबोधस्य च पदादस्वीकरणात् । अतोलाक्षणिकपदस्य शक्यसम्बन्धित्वेनार्थान्तरबोधकत्वमभ्युपेयम् । उक्तं च न्यायसुधाकृताऽभिधेयाविनाभूत इति श्लोक व्याख्यावसरे नात्र लक्षणाहेतुत्वे नाभावोपादानं तस्याः सम्बन्धमात्रेण शब्द- तात्पर्यवशादुपपत्तेः किन्तु अभिधेयसम्बन्धित्वरूपादरप्रदर्शनार्थ- मिति । नचैवं चित्राशब्दस्य दर्शतुल्यन्यायतापतिः लाक्षणिकेपि