पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधेयपकरणम् । यादियागानां हि देवताकाङ्क्षा उत्पत्तिशिष्टैरग्न्यादिभि- ख निवृत्तेति न तत्र विश्वेदेवविधानं युक्तम् । अत- थोत्पत्तिशिष्टगुणबलीयस्त्वाद्वैश्वदेवशब्दस्य कर्मनाम- धेयत्वामिति । यथा ऽऽहुः- 'गुणान्तरावरुद्धत्वान्नावकाश्यो गुणोऽपरः । विकल्पोपि न वैषम्यात्तस्मानामैव युज्यत' इति ।। अन्ये त्वाचार्याः आहुः-यः शब्दो यत्र कर्मणि केचित् न्यायसुशकृतः । मिश्राशयमाह । अन्यत्विति । ननु यद्गुण सम्बन्धमित्वस्य यश्चासौ गुणसम्बन्धश्वेत्यर्थः, तथा च तद्गुणनिरूपित्तस्य यत्किश्चित्सम्बन्धस्य ततः प्रतिपत्ती तत्तख्य- तेति वाच्यं तथा सति तानि वा इति वाक्यशेषात्पाग्यदीया- दिज्योतिःसमुदायस्य विधेयतया प्रतीतिज्योतिष्टोमशब्दाद्भवति तग्निरूपितो न कोपि सम्बन्धस्तस्माद्वाक्यशेषात्पत्तिपन्न इति कथं तत्पख्यता । अयोध्येत वाक्यीयविधानादिदोषनिरस्तगुणविधित्वे यः शब्दः कर्माण नासत्वेन प्रवर्त्तमानः प्रवृत्तिनिमित्तत्वाभिमतं गुणसम्बन्धं शास्त्रान्त र प्रतिपन्नं निमित्तीकृत्य प्रवर्तते तत्र तत्य- ख्यतेति । तन्न । तथासति चित्राज्यपृष्ठश्येनशब्दानामपि तत्तख्यत. यैव नामत्त्वापत्तेः उत्तत्तिविधित्तोर्थवादतोवाऽवगतं तत्तत्सम्बन्धं निमित्ती कृत्यैव तेषां प्रवृत्तेरिति चेत् । न । यतो यत्संबद्धोर्थः शब्देन बोध्यते तदेव शब्दस्थ प्रवृत्तिनिमित्तं अग्निहोत्रज्योतिष्टोमवदेवा. दिशब्दानां यौगिकतया शास्त्रान्तरप्रतिपन्नगुण सम्बद्धार्थबोधकानां सम्भवति तादृशगुणसम्बन्धनिमित्तत्वं, चित्रादीनां तु रूढत्या ता- दृशगुणसम्बन्धकर्माबोधकानां कथं तादृशगुणसम्बन्धनिमित्तत्वं स्यात् । नचैवमयौगिकदर्शसमिदादिपदानां तत्प्रख्यन्यायाविषय- --