पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तथापि सप्तसु नामधेयप्रकरणम् । यागे मत्वर्थलक्षणा । विश्वदेवरूपैकदेवताविधानाच्च न वाक्यभेदः । नापि तत्प्रख्यशास्त्रानामत्वम् । यत्र हि विधि- त्सितो गणोऽन्यतः प्राप्तः तत्र तत्प्रख्यशास्त्रान्नामधेय. त्वम् । यथाऽग्निहोत्रशब्दे । अत्र चाग्नेयादयो ऽष्टौ यागाः प्रकृताः । तत्रामिक्षायागे यद्यपि विश्वेदेवाः प्राप्ताः वैश्वदेव्यामिक्षेति, तेषामप्राप्तत्वा- दैश्वदेवेन यजेतेत्यनेन तत्र तद्विधाने न तत्प्रख्यशा- स्वमन्यत् येन तदशान्नामत्वं स्यात् । न चामिक्षायाग- स्यैवैतन्नामेति वाच्यम् । वैश्वदेवेन यजेतति वाक्यवै- यापत्तेः । वैश्वदेवशब्दस्यामिक्षायागमात्रनामत्वे स एव यागो ऽनेनानुद्यत इति वाच्यम् , न च तदनुवादे- नास्ति किं चित्कृत्यम् ‘प्राचीनप्रवणे वैश्वदेवेन यजेत- इति विधीयमानस्य प्राचीनप्रवणदेशस्य विनाप्येतद्- वाक्यं आमिक्षायाग एव सम्बन्धोपपत्तेः । विश्वेदेवस- म्बन्धात तस्य । आग्नेयाद्यशेषप्रकृतयागनामत्वे तु न वैश्वदेवेन यजेतेति वाक्यानर्थक्यं, तदा त्वनेनाष्टौ यागाः अनूयन्ते । अनुवादेन चैकप्रतीत्यारूढत्वात्म- मुदितानामष्टानामपि वैश्वदेवशन्दी नामधेयं सिध्यति । एवं च प्राचीनप्रवणे वैश्वदेवेन यजतेत्यत्र वैश्वदेवश- ब्दो नामधेयं सिध्यति । एवं च प्राचीनप्रवण वैश्वदेव-