पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमामांमान्यायप्रकाश-- स्तोतुं शक्यते । उपमानोपमेयभावस्य भिन्ननिष्ठत्वात् । यदा तु श्येनसंज्ञको यागो विधीयते तदा अर्थवादेन श्येनोपमानेन तस्य स्तुतिः कर्तुं शक्यते इति श्येनश- व्दस्य तव्यपदेशाद्यागनामधेयत्वम् । तत्सिद्धं निमि- त्तचतुष्टयानामधेयत्वम् । उत्पत्तिशिष्टगुणबलीयस्त्वमपि पञ्चमं केचित्रामधे यत्वे निमित्तमाः । 'वैश्वदेवेन यजेते त्यत्र वैश्वदेव- वशब्दस्य कर्मनामधेयत्वमुत्पत्तिशिष्टगणबलीयस्त्वात् । उक्तमत्वर्थलक्षणादिप्रकारचतुष्टयासम्भवात् । तथा हि न तावन्मत्वर्थलथणाभयानामधेयत्वं युक्तमिति वक्तुं शक्य, वैश्वदेवेनेति तद्धितेनैव मत्वर्थस्य यागास्यो- क्तत्वात् । साऽस्यदेवतेत्यस्मिन्नर्थे हि तद्धितस्मरणम् । तत्रास्य शब्दस्य तद्धितान्तर्गतस्य यद्यपि सूक्तहविषो- रिति स्मृतेः सूक्ते हविषि वा मुख्यत्वमवगतं तथापि सर्वनाम्नामुपस्थितवाचित्वात् हविषोश्चात्रानुपस्थितत्वा- द्यजेतेत्युपस्थितं यागमेवास्यशब्दो ऽभिधत्त इति न तत्राप्यगत्या दिनोपाधिकं भेदमादायैवोपमेत्याशयः । नच प्रकृते गत्यभावः यागे गोण्या वृत्या श्येनपदप्रवृत्त्यै गौणीनिमित्तानामाद्य- तत्सिध्याख्यनिमित्तकथने 'समानमितरच्छयेनेने त्यादिविधिमृलप- वृत्तिविशेषकरत्वेन केवलस्तुत्यपेक्षया प्रयोजनालाभादित्याशये- नाह । यदाविति।