पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नामधयाकरणम् । किंतु मन्त्रवर्ण एव । अतश्च तेनाग्नेः प्राप्तत्वान्ना- ग्निहोत्रपदं देवतासमर्पकं. किं तर्हि ! नामधेयमेव । तत्सिद्धमेतत्तत्प्रख्यशास्त्रादग्निहोत्रशब्दस्य कर्मनामधे- यत्वमिति । एवं प्रयाजेषु समिदादिदेवतानां सामिधः समिधो ऽग्न आज्यस्य व्यन्त्वि' त्यादिमन्त्रग्वणेभ्यः प्राप्तत्वा- समिधो यजतीत्यादिषु समिदादिशब्दास्तत्प्रख्यशास्त्रा- कर्मनामधयानि । यथाः 'विधिलितगणप्रापि शास्त्रमन्यद्यतस्त्विह। तस्मा- त्तत्प्रापणं व्यर्थमिति नामत्वमिष्यत' इति दिक् ॥ 'श्यनेनाभिचरन्यजेते त्यत्र श्येनशब्दस्य कर्मनाम- धेयत्वं तदव्यपदेशात्तेन व्यपदेशः उपमानं तदन्यथा. नुपपत्त्येति यावत् । तथा हि यदिधयं तस्य स्तुतिर्भव- ति । तद्यदि अत्र श्येनो विधेयः स्यात्तदार्थवादैस्तस्यैव स्तुतिः कार्या । न च 'यथा वै श्येनो निपत्यादत्ते एवमयं द्विपन्तं भ्रातृव्यं निपत्यादत्त' इत्यनेनात्रत्येना- र्थवादेन श्येनस्तोतुं शक्यः । श्येनोपमानेनार्थान्त- रस्तुतेः क्रियमाणत्वात् । न च श्येनोपमानेन स एव साम्येन शक्यते एव श्थेनव्यक्त्यन्तरं स्तोतुमत आह । श्येनोपमा- नेनेति । श्येनसामान्योपमानेनेत्यर्थः । नात्र श्येनविशेषसादृश्यं स्तु- तिकरणत्वेन प्रतीयत इत्याशयः । ननु रामरावणयोर्युद्धं रामरावण योरिवेत्यादिवदभेदेपि सम्भवत्येवोपमाऽतआइ । नचइपेनेति ।