पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४१९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

माहालङ्कारसहितवीमांसान्यायपकाशे- दयो विधीयन्ते । उक्तरीत्या वाक्य भेदापत्तेः । चकार- श्रवणेन कथं चित्तत्परिहारेऽपि गवादीनामनकेषां द्वा- दशशतसङ्ख्यायाश्च विधान वास्यभेद एव । आर्य- वशाखायां गौश्चेत्यादेः तस्य द्वादशशतमित्यन्तस्य सह श्रुतत्वेन वाक्यैकवाक्यत्वमित्युक्तं दशमे । अतोऽनेन वाक्येनोभयविशिष्टा दक्षिणैव विधीयते । विशिष्टविधा- नाच्च न वाक्यभेदः । अत एव पार्थसारथिमित्रैर्दशमे तत्र तत्र ‘सोभयरिशिष्टा विधीयते' 'अनेगवाद्यात्मि- कैका दक्षिणा विधीयत' इति चोक्तम् । नचैवं 'ऋत्विग्भ्यो दक्षिणां ददाति' इत्यस्यानर्थक्यं, तस्यानुवादत्वात । ऋ. त्विक्सम्बन्धपरत्वादा। दक्षिणाशब्दसामाद्धि ऋत्विजां चमसाध्वर्युणां च तत्सम्बन्धः स्याताएतद्वाक्यसत्त्वे च न भवति ऋत्विशब्दस्य ब्रह्मादिगतऋतुयजननिमित्त- खेन चमसाधणामृत्विक्त्वाभावस्य तृतीये उक्तत्वात् । अतश्च गौश्चाश्वश्चेत्यस्मिन् वाक्ये विशिष्टविधानान्न वाक्यभेदः । यदग्नये च प्रजापतये च सायं जुहोतीति तु न विशिष्टविधानं, होमस्याग्निहोत्रं जुहोतीत्यनेन प्राप्तत्वात् । अतश्च होमानुवादेन समुच्चितोमयविधाने वाक्यभेदागौरखापत्तश्च नानन वाक्येन देवतादयं वि- धीयते, किन्तु मन्त्रवणप्राप्तमग्निमनूद्य तत्समुच्चितः प्रजापति)मोद्देशेन विधीयते । अतश्च नेदमग्नेः प्रापकं