पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४१८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१३ नामधेयप्रकरणम् । प्रयोगः स्यात् । समुच्चयशब्दवच्चकारस्य प्राधान्येन समुच्चयबाचित्वे धवखदियोः समुच्चय इतिवद् धव- खदिश्योश्चेत्यपि प्रयोगः स्यादिति । अतश्चकारः समु- च्चयं प्राधान्येन न ब्रूते, येन प्रधानस्यैकस्यैव विधानान वाक्यभेदो भवेत् । किं तु कारक- द्वयोपसर्जनत्वेनैव स तं ब्रूते । समुच्चितौ अग्निप्रजा- पती इति । यद्यपि चकारः समुच्चयं प्राधान्ये- न यात्तथापि तस्य कारकद्वयं प्रति प्राधा- न्यमनुपपन्नम, विभक्त्यमिहितस्य कारकद्रयस्य क्रियो- पसर्जनत्वेन समुच्चयोपसर्जनत्वाभावात् । कृदन्तादिश- दैरुपस्थितं हि कारक क्रियातोऽन्येन सन्बध्यते । का- रकसमुच्चयः करणसमुच्चय इति । विभक्त्यऽभिहितं तु क्रिययैव, कारकाणां तयैवान्वयात् । अतश्चकारेणो- च्यमानः स कारकोपसर्जनत्वेनैवोच्यते । कारकदयं च प्रधानम् । एकोद्देशेन च प्रधानद्वयविधाने वाक्यभेद एव । यथाहुः। 'अनेकपदसम्बद्धं योकमपि कारकम् । तथापि तदनावृत्तैः प्रत्ययैर्न विधीयते' इति । यच्च यथा दक्षिणानुवादेन गवादीनामनेकेषां विधाने न वाक्यभेदस्तथा कारकद्वयविधानेपीति । तन्न। न हि गौश्चाश्वश्चेत्यस्मिन् वाक्ये दक्षिणानुवादेन गवा-