पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४१२ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- देर्मान्त्रवर्णिकत्वेपि न गुणविशिष्टस्य देवतात्वं विष्णुरु- पांशु यष्टव्य' इत्यर्थवादे केवलस्यैव सङ्कीर्तनात्तददि- ति । अतश्च मान्त्रवर्णिकत्वे दोषाभावाद्देवतादयविधाने च गौरखापत्तेरन्यतः प्राप्तमग्निमनद्य तत्समुच्चितः प्रजापतिरेवात्र विधीयते । होमानुवादेनोमयविधाने वाक्यभेदप्रसङ्गाच्च । न च चकारश्रवणान्न :वाक्यभेद इति वाच्यम् । चकारार्थो हि समुच्चयः । तं च समु- च्चयं यदि चकारः प्रधान्येन ब्रूयात्तदा प्रधानस्यानेक- विशेषणसङ्ग्राहकत्वादारुण्यादिविशिष्टक्रयविधान इब कारकद्वयसमुच्चयविधाने वाक्यमेदो नभवेत् । न च चकारः समुच्चयं प्रधान्येन ब्रूते परोपसर्जनत्वेनैवामि- धानात । अत एव दशमे भाष्यकारैश्चकारस्य समुच्च- यशहादैलक्षण्यं प्रतिपादितम् । समुच्चयशब्दो हि तं प्राधान्येन ब्रूते न चकारः । समुच्चयः शोभनः समुच्चयो द्रष्टव्य इतिवत च शोभनश्च द्रष्टव्य इति णाग्निज्योतिरित्यस्य मूर्योज्योतिरित्यस्य प्रातरिति प्रसक्तविन ज्यविनियोगनिरासार्थत्वेनोपपन्नाभ्यां तद्विधिभ्यां नेतरयोः पर्युदा- समसक्तिरित्याशयेनापिइतिकश्चित् । यदिकश्चिद्व्यात् प्रादिवच्चादी. नामपि द्योतकत्वाच्च कारगृहीततात्पर्यवेणान्यादिपदेनेतरेतरममु- चितस्वार्थाभिधाने सत्येकपदाभिहितानेकार्थविधानेन वाक्यभेदप- रिहार इति तमभ्युपेत्याह । गौरवापत्तेश्चेति। नन्वेकश्येनव्यक्ति-