पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाहालङ्कारसहितमीमांसान्यायमकाशे- तन्न । अग्निसमुच्चितप्रजापतिविधानवत्सूर्य- समुच्चितस्याविधानात्मबलप्रमाणबोधितेन प्रजापति- ना मन्त्रवर्णप्राप्तस्य सूर्यस्य बाधितत्वात् । यत्त्व- ग्नेर्मान्त्रवार्णिकत्वे प्रजापतिविधेरेकेनैव वाक्येन सिद्धेः 'यदग्नये च प्रजापतये च सायं जहांति' 'यत्पूर्याय च प्रजापतये च प्रातर्जुहोति इति' वाक्यद्रयं व्यर्थमि- ति। तन्न । भवेयर्थ, यदि प्रजापतिमात्र विधानं विव- वक्षितं स्यात्, सायंहामे ऽग्निसमुच्चितप्रजापतिविधानं, प्रात:मे 'सूर्योोतिर्योतिः सूर्यः स्वाहा' इति म- न्त्रवर्णप्राप्तसूर्यसमुच्चितप्रजापतिविधानं च विवक्षित- म् । न चैतदेकेन वाक्येन सिध्यति । अतोऽर्थवद्धा- क्यदयम् । यत्तु-अग्नेर्मान्त्रवणिकत्वे मन्त्रवर्णस्य 'अग्नि- ज्योंतिज्योतिरग्निः स्वाहेति सायं जुहोति इाते वाक्येन सायहोमे विनियुक्तत्वात तत्प्रकाश्यस्याग्नेपि प्रजापति- समुच्चितस्य तत्रैव देवतात्वावगतर्यदग्नये चति वाक्ये सायंशब्दो व्यर्थ इति, एवं यत्सूर्याय चेति वाक्ये प्रातः शब्दो व्यर्थ इति । किं च मन्त्रवर्णेन ज्योतिष्व- योबहुव्रीहेस्तत्पुरुषाच न बाधकत्वमित्यतः परस्परमितिशे- षः । चतुर्थीविड़ितत्वेन प्रजापतेरिव पूर्वप्रवृत्तत्वेनाधिकत्व- मपि समुच्चयविधिनैवावद्योयत इत्याशयः । अग्निसमुच्चितेत्यस्य