पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४१३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०८ भाट्टालङ्कारसाहितमीमामान्यायप्रकाश- विधीयते यत्प्रकारान्तरान्तरेणाप्राप्तम् । तत्र यथाऽनेन वाक्येन सायं कालो न विधीयते 'सायं जुहोति' इति वचनान्तरेण प्राप्तत्वात, तथाऽग्निरपि न विधीयते 'अग्निज्योतिज्योतिरग्निः : स्वाहा' इति मन्त्रवणीदेव देव- तायाः प्राप्तत्वात । मन्त्रवणस्यापि देवतासमर्पकत्वमस्त्ये. व । अत एवापांशुयाजे विष्ण्वादीनां मात्रवर्णिकं दे- वतात्वमित्युक्तम् । नन्वेवं प्रजापतिदेवतया अग्नेर्वाधः स्यात चतुर्था हि प्रजपोर्देवतात्वमवगम्यते, अग्नेस्तु मान्त्रवर्णिकम । तत्र साऽस्यदेवतोत देवतात्वे तद्धि- तस्मरणवद्यद्यपि देवतात्वे चतुर्थी स्मरण नास्ति, 'स- म्प्रदाने चतुर्थी' इति सम्प्रदाने तस्याः स्मरणात् , तथा पि त्यज्यमानद्रव्योद्देश्यत्वं तावदेवतात्वम् । तच्च स- म्प्रदानस्वरूपान्तर्गत, त्यज्यमानद्रव्योद्देश्यत्वे सति प्रति- ग्रहीतृत्वस्यैव सम्प्रदानत्वात् । अतश्चतुर्थीतः सम्प्रदा- नैकदेशतया देवतात्वप्रतीतिरस्त्येव । मन्त्रवर्णातु न देवतात्वं प्रतीयते, किं त्वधिष्टानमात्रम् । अतश्च मन्त्र- वर्णश्चतुर्थीतो दुर्बलः । यथाङः-- 'तद्धितेन चतुर्थ्या वा मन्त्रवर्णन वा पुनः । देवताया विघिस्तत्र दुर्बलं तु परं परम्' इति । अतश्च प्रबलप्रमाणबाधितप्रजापतिदेवतया दुर्ब- लप्रमाणबोधिताग्नेबर्बाधः स्यादिति चे:-सत्यं, स्या-