पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४०६ भाहालङ्कारसहितमीमांसान्यायप्रकाशे- रूपदेवताऽनेन समर्प्यते इति चेत्,-न । शास्त्रान्तरेण प्राप्तत्वात् । किं तच्छास्त्रान्तरमिति चेत- अत्र केचित् 'यदग्नये च प्रजापतये च सायं जुहोति' इति शास्त्रान्तरेण होमानुवादेनाग्निप्रजापत्यो- विधानान्नाग्निहोत्रपदं देवतासमर्पकम् । न चोभयवि- धाने वाक्यभेदः । परस्परनिरपेक्षविधाने हि वाक्यभेदः स्यात, अग्नये जुहोति प्रजापतये जुहोतीत प्रत्येक विधिव्यापारात । च शब्दश्रवणात्तु परस्परसापेक्षस्यैव पदव्यस्याख्यातान्वयान्न वाक्यभेदः । अत एव 'ऋ- विग्भ्यो दक्षिणां ददाति' इति वाक्यविहितदक्षिणा- नुवादेन 'गौश्चाश्वश्वाश्वतरश्च गर्दभश्चाजाश्चावयश्च ब्रीहयश्च यवाश्च तिलाश्च माषाश्च तस्य द्वादशशतं द- क्षिणा' इति वाक्येन गवादीनां विधानं दशमोक्तं सङ्गच्छते । परस्परसापेक्षाणां गवादीनां विधानेन वाक्यभेदाभावात् । अन्यथा दक्षिणानुवादेनानेकेषां गवादीनां विधानं नैव सङ्गच्छेतेति । अग्निप्रजापत्यो- श्च देवतयोः सतोः समुच्चयो न तु समुच्चितयोर्देवता- वं, पृथक्कारकविभक्तिश्रवणात । चकारार्थस्य च विभ- पृथगिति। यजति ददातीतितिङिभक्तिभ्यां धात्वर्थभेदभिन्न- भावनोक्तिवदग्नये प्रजापतय इति सुनिभक्तिभ्यां प्रातिपदिकार्थभे- दभिन्नदेवताप्रतिपादनमुचितमित्याशयः । ननु न प्रत्येक चतुर्थीतः प्रत्येकं देवतात्वं चतुर्थीतोहि तत्कल्प्यं, गुणपर चैकवाक्येऽनेका-