पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दवतावादः । नुबादेन चित्रत्वाविधाने फलपदानर्थक्यापत्तेश्च । उभ- यविधाने वाक्यभेदान् । प्रकृतस्य च यागस्य फलाका- उक्षाया अनिवृत्तेः । विश्वजिन्न्यायेन फलकल्पने गौ- खम् । दधिमध्वित्याद्युत्पत्तिवाक्येनैतस्याधिकारखाक्यस्य प्रतिपन्न कवाक्यताबाधेन वाक्यभेदप्रसङ्गाच्च । चिना- शब्दस्य तु कर्मनामधेयत्वे प्रकृतस्य कर्मणः फलाकाङ्- क्षस्य फलसम्बन्धमात्रकरणान्न वाक्यभेदः । प्रकृताया इष्टरेनेकद्रव्यकत्वेन चित्राशब्दस्य तत्रोपपत्तेः । तत्सिद्धं वाक्यभेदभयाच्चित्राशब्दः कर्मनामधेयमिति । 'अग्निहोत्रं जुहोति' इत्यत्राग्निहोत्रशब्दस्य कर्म- नामधेयत्वं तत्प्रख्यशास्त्रात । तस्य गुणस्य प्रख्याप- कस्य प्रापकस्य शास्त्रस्य विद्यमानत्वेनाग्निहोत्रशब्दः कर्मनामधेयमिति यावत् । तथा हि विधिना तावत्तदे- व विधेयं यत्प्रकारान्तरेणाप्राप्तम् । अप्राप्ते शास्त्रमर्थव- दिति न्यायात् । अग्निहोत्रशब्दस्य च गुणविधित्वे यो गणस्तेन विधेयः स शास्त्रान्तरेण प्राप्तः । कथ- मिति चेत् ? शृणु। यदि तावदग्नौ होत्रमस्मिन्निति सप्तमीसमासमा- श्रित्य होमाधारत्वेनाग्निविधेय इत्युच्येत, तदा ‘यदा- हवनीये जुहोति' इत्यनेनैव प्राप्तत्वादिध्यानर्थक्यम् । अथाग्नये होत्रमस्मिन्निति चतुर्थीसमासमाश्रित्याग्नि-