पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालार महिनमीमांसान्यायप्रकाशे- .. मपदस्यापि स्वरततः फलपरस्थ कामनानुवादत्व आ- नर्थक्यापत्तेश्च । नव नियमतः पवर्जनकामना भवति कामनातः प्रागेव केन चिहत्ते पशौ तदभावात् । तथा च पशकामपदस्य नित्यवच्छत्रणबाधः । देक्षस्योत्पत्ति- शिष्टपुंस्त्वावरुद्धत्वेन तत्र स्त्रीत्वविधानानुपपत्तेश्च, आ- भिक्षायागानवादेन वाजिनविधानवत । 'कृष्णसारङ्गो- ऽग्नोपोमीय' इति विशेषविहितेन स्वसनिधिपठितेन च कृष्णसारङ्गवर्णनावरुद्धे चित्रत्वस्थानारभ्याधीतत्वेन सामान्यशास्त्रेण विधानानुपपत्तेश्च : । पाञ्चदश्यावरुद्ध इन साप्तदश्यविधानम् । अथ मा भदग्नीषोमीयपश्वन- वादेन चित्रत्वस्त्रीत्वविधानम्, 'सारस्वती मेपी' इति वाक्यविहितयागाङ्गमेष्यनवादेन तु गुणविधानं स्यात् । चित्रयोत स्वीकारकानुवादेन चित्रत्वमात्रविधानात । न च प्राकृतेन कृष्णसारङ्गवर्णेन नैराकाङ्क्षयान्न चि- त्रत्वविधानं युक्तमिति वाच्यम् । उपदिष्टेन चित्रत्वेना- तिदिष्टस्य वर्णान्तरस्य बाधोपपत्तेरिति चेत् । मैवम् । न हि चित्रयेत्येकेन पदेन स्वीकारकस्योदेशः चित्रत्व- स्य च विधानं सम्भवति एकप्रसरतामङ्गलक्षणवाक्य- भेदापत्तेः । उद्देश्यविधेयभावस्यानेकपदसाध्यत्वात् । अत एव वषटकर्तुः प्रथमभक्ष' इत्यत्र विशिष्टभक्षविधिन तु भक्षानुवादेन प्राथम्यविधिरित्युक्तं तृतीये । मेष्य-