पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः । क्याद्वा मन्त्रविनियोगः प्रतीपते श्रौततद्विनियोगस्थले च मन्त्रार्थ आलोच्यत तावता कालेन यागादिविधिसमभिव्याहतया चतु- र्या देवतात्वमेवावगम्यत इति भवति चतुर्थ्याः प्रावल्यम् । या चा- ग्निज्योतिरित्यादावग्न्यादिपदोत्तरविभक्त्या देवतात्वलक्षणा तु- ल्या अनुपस्थितोपस्थित्यपेक्षया विशिष्टात्मनोपस्थितस्य निष्कृष्टा- त्मनोपस्थिती लाघवात् । यद्यपि द्वितीयायामपि लक्षणयाऽनुप- स्थितदेवतात्वोपस्थापनं तुल्यं तथापि देवताया उद्देश्यात्मकत्ता- सिद्धस्यैवोद्देश्यत्वात्तद्विपरीतसाध्यत्वात्मकर्मत्वं बोधयन्ती द्वि- तीया न मन्त्रसाम्यं लपत, नतरां बलवत्त्वं, आनक्यप्रतिहत. वेन तु प्राबल्यं यदि कचिदापद्यते न तन्निराकुर्मः । यत्तु पाश्चमिकन्यायेन चतुर्यपेक्षया मन्त्रस्य बलीयस्त्वो- पपादनं, तत्र ब्रूमः यागादिविधिना चतुर्थन्तं कश्चि- च्छब्दमुच्चार्य हविस्त्यजे दितिज्ञाने कोसौ शब्द इयाकाङ्क्षायां यदर्थस्य देवतात्वं निणीतं स शब्दोविधेयतया निणी- यत इति प्रथममविशेषस्य देवतात्वनिणयेन भवितव्यं तत्र चोक्तरीत्या चतुर्येव बलवतीति न तद्विरोधे मन्त्रादर्थ- गतदेवतात्वनिर्णयः तद्धितेन चतुर्था वा न देवतात्वनिर्णयोत्त- रं च दाशमिकन्यायेन तद्विधिमुपेक्ष्य शब्दविधिवेलायां यदि पा- ञ्चमिकन्यायेन मन्त्रगतः शब्दएव विधीयते न तावता चतुर्थीमन्त्र- योर्देवतात्वनिर्णये विपरीतबलाबलापत्तिः नहि शब्द एव देवता, न चोचार्यत्वं देवतास्वं, येन तन्निर्णये मन्त्रस्य बलीयस्त्वेन देवतात. निर्णयेवलीयस्त्वं व्यवहियेत । चतुर्थीमन्त्रयोर्बलाबलाक्षेपपरिहारः । देवताविषयाशेषदोषराशिविशोषिणी । अनन्तदेववागेषा सतां तोषाय जायताम् ॥ १ ॥ देवतावादः समाप्तः।