पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- ऽभिप्रायविशेषः, वेदे तु पुरुषाभावात् लिङादिशब्द- निष्ठ एव । न हि वेदः पुरुषनिर्मितः । । न त्वत्र शक्यतावच्छेदकभेदोविवक्षितो गौरवादित्याशयः । य घप्येषां प्रवर्तनात्वेन शक्यतायामपि लिङोऽनेकार्थत्वमपरिहा र्य अस्मिन्नेव सूत्रे यतः संप्रश्नप्रार्थनयोरपि स्मयते लिङ् किं भाट्टमधीयीय भोजनं लभेयेति च । तथा मूत्रान्तरे “काम- प्रवेदने कच्चि” दिति “हेतुहेतुमतोलिङ्' इत्यादावर्थातरेऽपि स्मयते । तथापि शक्यपरिहारं गौरवं न स्वीकर्तुमुचितमिति चतुर्णा प्रवर्तनात्वेनैव शक्यत्वम् पृथिव्याधनकार्थत्वेन स्वी- कृतमपि गोपदं सास्नादिमत्स्वनुगतजातिवाच्येव स्वीक्रियते । यजेतेति प्रकृतलिङर्थस्वरूपमाह । वेद इति । स इत्यनुषङ्गः । पुरुषाभावान्निर्मातुरभावात् । येन पुरुषेण निर्मितं यदाक्यं त- दन्तर्गत एव लिङ् तद्गता पवर्त्तनामभिधत्ते इति नियमभिप्रेत्येदम् । निर्मितत्त्वं च न ताल्वादिव्यापारकर्मत्वं वेदेपि तत्सत्वात् ना. प्यभिनवानुपूर्व्यात्मना रचितत्त्वं स्वाभिप्रेतज्ञप्तये प्रयुक्ते परनिर्मि- तश्लोकेऽन्तर्गतलिङा प्रयोक्तगतप्रवर्त्तनाभिधानस्य दृष्टत्वात् । किंतु स्वानुपजीविमानान्तरबोधितार्थबोधनाय प्रयुक्तत्वं,(१) वेद- स्यानुपूर्ध्यात्पना रचितत्वे सकलपुरुषनिरूपित्तस्येदृग्विधनिर्मितत्व- स्याभावोन वक्तुं शक्यत इति च तादृग्रचितत्वात्मकपौरुषेयत्वस्य निराकरणायाह नेति । यतो "वेदो धर्ममूल" इत्यादौ स्वतन्त्र- मानत्वेन प्रसिद्धो वेदोऽतोऽसौ न पौरुषेयः मन्वादिस्मृति- तुल्यत्वप्रसङ्गात् परमते च योगमहिम्ना सर्वज्ञर्षीणां स्वभावतः (स्वं नोपजीवति यत्प्रमाणं तद्वोधितार्थबोधनाय प्रयुक्तं य-