पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३१ शब्दभावनाकथनम् । स च प्रवृत्त्यनुकूलव्यापारविशेषो लोके पुरुषनिष्ठो- ग्यत्वसिद्धः अयोग्यत्वे पि निरूढलक्षणाया अनुपपत्त्यनुसंधानानपे- क्षत्वेनोक्तदोषानवतारात् । अनुपपत्तिवशेन लक्षणास्थलेपि मञ्चाः क्रोशतीत्यादावभिधोद्देश्यत्वेन पुरुषादिधीसम्भवेन लक्षणोच्छेदाप- तेश्च निरूढसांपतिकलक्षणयोः सांपतिक्या अन्याय्यत्वात्सम्भव- त्येवोक्ताधिकरणे परं प्रति तदापादनम् । अथ तदेवाभिधोद्देश्य यनियमेन तत्पयुक्तप्रतीतिभाक् भवति यथा व्यक्तिः नच मञ्चप- दात्पुरुषोनियमेनाभिधोद्देश्यतया प्रतीयत इति तत्पतीसै लक्षणा- श्रयणम् । तन्न । तदेव हि शब्देन लक्ष्यं यत्र तात्पर्य, यत्पतीतिमु. दिश्य यः शब्दोऽर्थमभिधते स तत्पर इति कथं लक्ष्यस्य नाभिधो- द्देश्यत्वम् । उक्तं च भवतैव- "अभिधानशक्तरेवाभिधेयाविनाभावोपस्थापितार्थतात्पर्याया लक्षणाशक्तित्व" मिति अरुणाधिकरणे । तस्माद्यच्छब्दाभिधेयं तदुद्देश्यकाभि- धानं कुर्वच्छब्दोमुख्यः, अभिधेयाविनाभूतं तत्सदृशं चोद्दिश्य प्र- तस्तु लाक्षणिकोगौणोवेति सम्भवति व्यक्तेलाक्षणिकत्वम् । अथ न प्रवर्तनात्वेन लिङभिधेयाया अपि प्रवर्तनाया "विधिनिमन्त्र- णामन्त्रणाधीष्टसम्प्रश्नप्रार्थनेषु लिङ्' इति सूत्रे लिङोनानार्थत्वोप- न्यासेन शक्यतावच्छेदकभेदप्रतीरित्याशयोष्टसाधनताऽन्या- प्रवर्त्तनेति मतमनुसृत्याह । स चेति । प्रवर्तनात्वेन लिङभिधेया- या अपि प्रवर्तनाया लौकिकवाक्येषु बहुविधपुरुषाशयरूपतया वि- ध्यादिशब्दचतुष्टयेन विवरणपत्र सूत्रे क्रियते । यतो विधिनि- कृष्टप्रवर्त्तनं यजेतेति । निमन्त्रणमावश्यके कर्मणि प्रवर्त्तनं श्राद्ध भुंजीत भवानिति । आमन्त्रणमभ्यनुज्ञात्मकं प्रवर्त्तनं ब्राह्मणः काममश्नीयादिति । अधीष्टः उत्कृष्टप्रवर्तनं अध्यापयेद्भवानिति