पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४०४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवताबादः । ३९९ मन्त्रस्य तु यद्यपि न मन्त्रविधया देवतायां प्रामाण्यं सथाऽप्यपत्यनुमानान्यतरमानेन सम्भवत्येव तत् । नच पूर्वक्लुपदेवतात्वानुप जीवनेन देवतायां मानवाभिमनादुपांशुवा- जादिमन्त्रात्कपदार्थे देवतात्वं कल्प्यमित्यत्र विनिगमकाभावः यत्- मूक्तेसो मन्त्रस्तरमूक्तान्तर्गताने कमन्त्रस्तुत्यत्वप 'विष्णुरुपांशु यष्टव्य' इत्यादिलिङ्गस्य विनिगमकस्य सत्वात् , शक्यते च देववि. छणुशब्दयोर नेकविध साम्ये सत्यपि विष्णुशब्दस्यासकृत्प्रयोग योग- रूढिभ्यामर्थविशेषप्रतिपादकत्वनियमादेवशब्दस्य तु युगपदेकरूपेणा- ऽनेकार्थपनिपादकतया शुक्लादिनद्गुणविशेषवाचकवाच्छेनं पंकज मिसादी पंकजपदार्थस्यैव धमत्ववद्विष्णुपदार्थस्यैव धर्मित्वमित्येव विनिगमकं वक्तुम् , क्लसदेवतातोपजीव नेन देवतायां मानत्वमपि नोत्तमप्रयाजयाज्यामुक्त वाकयोरसम्भवि भाज्यस्य व्यंत्वितीदंह- विरजुपतेति च हविःसम्बन्धित्वेन प्रकाश्यताया देवतात्वमन्तरेणा- नुपपनेः, अग्निशब्दस्य च सम्वुद्ध्यन्तत्वेनावाहननिगरान्तर्गनसम्बु. ढ्यन्ताग्निशब्दबददेवताभूताग्निपतिपादकत्वात् । नच पानीवनग्रहे ऽग्नेरिवेहाप्यन्न हविःसम्बन्धः प्रतीयते, नापि त्रिंशतामिवाज्यभाग देवतानामग्निदार कस्तत्सम्बन्धः येनाग्नदेवतात्वं स्यात् न स्याञ्च तामाम् । नचैवं पूर्वोपन्यस्तमवर्णयास्कोक्तिभ्यां विरोधः प्रयाज- देवतासमर्पकसन्दिग्धार्थकसीपदादिशब्दार्थकथनपरत्वात्तयोः । युक्तं च वैदिकशब्दार्थनिर्वचनाय मवृत्तस्य यास्कस्योक्तेरैदप नतु देवता. विधिपरत्वं, अत एव भक्तिमात्र' मितरादिति वाक्याने किमर्थ पुन- रिदमुख्यते किंविचारे प्रयोजनमिति शङ्कोत्तरत्वेनावतारितं 'यस्यै देवतायै हविगृहीतं स्यातां मनसा ध्याये षट्करिष्य निति निरुक्तं होतुर्वषटकारपूर्वकाले ध्यानविशेषसिद्धिं विचारप्रयोजनं कथयत्स. गच्छते। एष एव च ध्यानकालोयजमानस्याहुतिप्रक्षेपकाल इति व्या-