पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहिनमीमांसान्यायप्रकाशे- अतएव द्रव्योपसर्जनकारकाभिधायित्वेऽप्यस्य न क्षतिः तृतीयादिवद्विधिसहकारित्वेन प्रकन्यथावनियोजकत्वे हि क्रिया- वायकारकाभिधानमपेक्षणीयं स्यात् । न च नास्येव कारका- भिधायित्वं प्रकृयान्वितद्रव्यमानाभिधायित्वादितिशङ्यं, सम्बन्ध- सामान्यविहितनद्धिनाइवतातद्धितस्य विलक्षणप्रतत्यिजनकत्वे पृथ- गनुशासनवैयापत्तः देवतात्वस्य प्रकारतायास्तद्धितजन्यप्रतीता- वानुभविकत्वाच,अन्ययौपगत्र इत्यादितद्धितस्यापत्याचर्थवाचित्व- मपि न मिद्ध्येत् । शक्पते हि प्रकृतिप्रत्ययार्ययोः संसर्गतयाऽपसत्वं भासत इति वक्तुम् । न च तद्धितस्य विध्यनपक्षस्य देवतायां प्रामा- ण्ये 'चरुमुपदधातीति विधिसमीपे पठित 'बार्हस्पत्योभवतीति तद्धिताबृहस्पतर्देवनात्वं सिद्ध्येदिति शक्यं, स्वार्थविधिनियोग- सिय विध्यनपक्षस्यापि तद्धितस्य स्वार्थगौरवतात्पर्यमिय धिवाक्यान्तर्भावसापेक्षत्वात् तत्सिद्धं देवतायां तद्धितस्य प्रामाण्यम् । चतुर्थी तु यद्यपि सम्पदाने विहिता सम्प्रदानशब्दश्च 'कर्मणा यमाभिप्रेति स सम्प्रदान मितिलक्षणानुसारेण दानान्वयिकारकमेवा- भिधत्ते, कथं हि कर्मत्वाभिमतेन द्रव्येण पुरुपोभिऽप्रेतः स्याद्यदि न तत्स्वत्वापादनं कर्मत्वापादकत्वं कर्मत्वाभिमते द्रव्ये चिकी- येत, ततश्च यागायिकारक लक्षणयैवाभिधत्ते तथापि भवत्येवं त- द्धितवत्प्रमाणं वैदिकलौकिकानेकप्रयोगेषु देवतायां चतुर्त्या दृष्टम- योगत्वाल्लक्षणाप्येषा शक्तिकोटिनिक्षिप्तव | नचैतादृशलक्षणया के चन शब्दा देव तायां दृढपवर्त्तकाः येन चतुर्युक्तौ निवेशार्हाः स्युः । अतएवाग्नये पवमानायेत्यादौ यजिसमभिव्याहारमनपेक्ष्य यज्य- वितकारकप्रतिपादनोपपत्तिः निरूढलक्षणाया अनुपपत्तिपतिस- न्धानानपेक्षवाद अधिकारिणः प्रति सम्पदानत्वायोग्यार्थकप्रकृति- समभिव्याहारस्य तत्र तात्पर्यनियामकस्य सत्वात्, अतोयुक्तं चतु- + ा अपि प्रामाण्यम्