पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/४०२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

देवतावादः । ३९७ देवतात्वं प्राप्तमनूयते इत्यादिका, शब्दस्यैव विधेयत्वाश्रयणाचाग्न- येपावकायेत्यादौ विनिगमनाविरहेणाभयोरपि शब्दयोरेकविधि- विधेयतया साहित्यविवक्षायां न विकल्पापत्तिः असत्यप्यर्थस्य वि. धेयत्वे तदन्वितदेवतात्वस्यैव विधिसमभिव्याहृततद्धिताभिधेय- खादर्यान्वितदेवतास्वाभिधायिचतुर्थी विधिविधयत्वादर्थगतदे. बताखेनैव विधययागशरीरपर्यवसानादपेक्षत एवं विधिरर्थगत विशेषं, अतः सम्भवत्येव तत्प्रतिपादकानां मन्त्रार्थवादानां स्वार्थ पामाण्यम् । नावमिकन्यायस्तु विध्यनपेक्षिते देवतायाः फलदातृत्वादी तत्प्रामाण्य निरासार्थतया नेयः अतएव न विध्यनपेक्षितेऽग्न्यादि. देवतानां तत्तत्कर्माधिकारे नक्षत्रेष्टिवाक्यशेषाणां प्रामाण्यासम्भ- वान्न तदनुरोधेन शब्ददेवतात्वसिद्धिः शब्ददेवतात्यानाश्रयणाच न तद्गोचरपूर्वोपन्यस्तदोषप्र सक्तिः । इति देवतात्वलक्षणतदाश्रयाक्षेपपरिहारः । यत एवार्थस्य देवतात्त्वेपि नासौ विधेयः अतएव तद्गत. देवतात्वं सहकारित्वेनैव वाच्यं तृतीयादिवत्, यच्च न विधे. विषयः कथं तन्न विधिसहकारितयाऽन्यत्प्रमाणं स्यात् । कथं तर्हि तस्य मामाण्यमितिचेत् ? विधेययागशरीरपर्यवसानाय विध्यपेक्षित अनधिगतं अबाधितमर्थविशेषान्वितं देवतात्वं पदान्तरमनपेक्ष्य स्वशक्त्या बोधयतः कथं प्रामाण्ये विवादः नहि विधायकत्वविनियो. जकत्वविनियोज्याभिधायित्वानामन्यतरेणैव प्रकारेण शब्दप्रामाण्य- मिति राजाज्ञाऽस्ति, प्रकारत्रयशून्यस्यापि यन्न दुःखेन सम्भिन्न'मि- सादेः स्वर्गस्वरूपे प्रामाण्यस्वीकारात् । तादृशस्वगोंदेशेन यागविनि- योगप्रतीतिप्रयोजकत्वादस्ति परंपरया तस्यापि विनियोजकत्वमिति चेत् ? भवतु तर्हि चतुर्यन्तशब्दविशेषविनियोगप्रतीतिमयोजकतया तद्धितस्यापि तादृशविनियोजकत्वं, सर्वथाऽप्यर्थविनियोगे नास्य प्रामाण्य मित्यविवादम् । . ..