पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३९४ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- भिधानादिति सांपदायिका वर्णयन्ति । अयुक्तं चैतत् 'अग्नये स्वाहेत्यादिमन्वपि के पुचि देवतात्या- भिधानसत्वात् । यत्रापि अग्निज्योतिरनिरित्यादिमन्त्रेषु न चतुर्थी. श्रवणं, तत्रापि पाठाद्वचनाद्वा मन्त्रान्तेऽवश्य पठनीयस्वाहादिशब्दो- पस्थाप्यप्रदान क्रियाया इतरपदार्थान्वितरूपेण प्रकाशन सिद्धयर्थमव- यमग्न्यादिपदोत्तरविभक्त्या लक्षणया देवतात्वमुपस्थाप्यते तथा- विधप्रकाशनस्यै कामताघटकत्वात् प्रधानविध्यपेक्षितत्वाच । ततश्च निष्कृष्टदेवतात्वोपस्थित्यै चतुर्थी मन्त्रे च लक्षणाश्रय गस्य तुल्य खात् कथं मन्त्रस्य दौर्बल्यम् । विधिसमभिव्याहाराहाह्मणगता चतुर्थी बलवतीति चेत् ! तस्मादेव हे तोमिणगता द्वितीयापि बलब त्तया कथं न व्यवाहियते । वस्तुतस्तु यदैव विधिना यागो होमोवा विहितः तदेवैतन्निर्णीतं चतुर्यन्तं कञ्चिदेवताशब्दमुच्चार्य हवि- स्त्याज्यपिति । कोसौ शब्द इति शब्दविशेषमात्रमन्यतः प्रार्थ्यते नतु तस्य चतुर्थ्यन्त त्वं विधिविषयत्वं वा, प्रागेत्र सिद्धत्वात् । यथैव ममन्त्रकपदार्थस्थले मन्त्राणां प्रयोगकाले स्मारकनयाऽन्तरङ्गत्वा- न्मन्त्रक्रमेणेव क्रम आश्रीयते न ब्राह्मणक्रमेण, उक्तं हि पञ्चमे 'ब्रा- ह्मणक्रमस्य बलीयस्त्वादानेयं कृत्वैवानीपोमीयः कर्तव्य'इति । तथैव यागाद्यनुष्ठान कालीनदेवतापकाशनार्थमन्त्रस्य ब्राह्मणादन्तरङ्गत्वा- दुक्त शब्दविशेषाकासायां मन्त्रगतः शब्दविशेष एव यागादिविधि- ना स्वीकर्तुमुचितोन ब्राह्मगगतः, सङ्गच्छत चैवं सति 'पार्वणी जुहोती'तिविहितयोरपि होमयाः ‘अमावास्यासुभगा ऋषभं वाजिन वयं पूर्णमास'मित्यमावास्यापूर्णमासपदोपेतमन्त्रयोरमावास्याया इदं पूर्णमासायदमितित्यागानुष्ठानं सकलयाज्ञिकानाम् । अतस्तद्धितादपि न दुर्वलोमन्त्रो न तरां चतुर्या इति नैव सकलमपि देवतानिरूपणं मीमांसकाभिगत सङ्गछते इति । अत्रोच्यते । प्रधानलोपप्रयोजकव्यतिरेकप्रतियोग्युद्देशविशेष-