पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. ३८८ भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे-- ब्रह्मण्यानिगदस्याग्निष्वतिपातस्य 'अग्ने आगच्छ रोहिताश्व तिगुण- वाचिषु हरिवदादित्यूहः स्यात् । तथाच नावमिकाधिकरणगिराधः। एतेन यत्र स्वनिरूपितं स्तुत्यत्वरूपं देवतात्वं तत्रैव हविनि. रूपित देवतात्वं मन्त्रेणाक्षिप्यत इति परास्तम् । यत्तिनोधर्माः मन्त्रेन्तर्गतैः पदैः प्रतिपाद्यन्ते स स्तुत्यः, च मन्त्रान्तर्गता धर्माः कचिद्वर्तन्त इति स्वीक्रियते । अथासद्गुण- बत्तया प्रतिपाद्यत्वरूपं स्तुत्पत्वमेव मन्त्रनिरूपितं देवतात्वमिति चेन् ? न, 'अग्निहिमस्य भेषज'मित्येवं स्तुतिभाजां देवतात्वाभाव सङ्गात् । अथ गुणवत्तया प्रतिपाद्यत्वमेव तत् , गुणसत्यासत्वयोस्तु नादर इतिचेत् ? तथापि 'त्रिदेवः पृथिवी'मित्यादिमन्त्रेपु समाना. धिकरणदेवविष्यवाय नेकपदयुकेषु यदेकस्यैव कस्यचित् पदस्या- र्थ स्तुत्यत्वेनाभ्युपगम्य तेनैव पदन मन्त्रहविर्देवता व्यवहारः क्रि- यते तत्र किं बीजं ?, शक्यते हि वक्तुं सर्वैः पदेवदार्थः स्तूप इति, तुल्यं हि लोकप्रसिध्या देवविष्णुशब्दयोरूढत्वं निरुत्यादि प्रसिध्या यौगिकत्वं, तुल्यं चानेकार्थत्वं देवशब्दस्येन्द्रादिष्विव वि- ष्णुशब्दस्यापि पादन्द्रियाधिष्ठातरि द्वादशादित्यान्तर्गते यज्ञे जग. पालके च श्रुत्यादिप्रसिद्धत्वात् । दृष्टं च विष्णुशब्दस्यव देवश- ब्दस्यापि देवतासमर्पकत्वं 'योनः सपनोयोरण'इत्यादिमन्त्रकहोमे। अथ छन्दोदेवनाअनुक्रमणिकाग्रन्थ मन्त्रविशेपदेवताविशेपस्य नियतरूपेण कथनाच्छक्यते मन्त्रेण स्वदेवताया हविर्देवतात्वं क- ल्पयितुमिति निरूप्यते ? नैतदपि, छन्दोनिरूपण इव देवतानिरूपणेपि तस्य ग्रन्थस्य श्रुत्यतिरिक्तमूलताया अवश्यवक्तव्यत्वात् यथैव हीयं गायत्रीयं त्रिष्टुविति प्रतिमन्त्रश्रुत्तयो न सम्भावयितुं शक्यन्ते तथास्याग्निर्दे- बता ऽस्येन्द्र इति न सम्भावयितुं शक्या, शक्यत्वे वा 'तोऽनादिष्ट- देवता मन्त्रास्तेषुदेवतोपपरीक्षा यद्देवतः सयज्ञो वा यज्ञाचं वा त-