पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३८६ भाहालङ्कारसहितमीमांसान्यायप्रकाशे-- ग्निरिति सोम इति सत्यपि अधिष्ठानभेदे निर्दिष्टविकृतावादित्य शब्दस्यैवाधिष्ठानत्वेन कथं चोक्तोरिकल्पः सङ्गच्छते । तस्मान्न शब्दस्याप्याश्रयत्वमिति देवतात्वाश्रयाक्षेपः । प्रमाणमपि तत्र न तावत्तद्धितः सम्भवति, नाह तस्य विधायकत्वेन प्रामाण्यं प्रवर्तनानभिधायित्वात्, नापि बीहा दिशब्दवद्विनियोज्याभिधायित्वेन कारकशक्त्यधिष्ठानत्वेन, बीद्यादि- तुल्यं विनियोज्यत्वं हि तद्धितप्रकृत्यर्थस्याम्पादेरेव वक्तं शक्य न तद्धितार्थस्य । अध करणादिकारकाभिधायिविभक्तिवदेवता- कारकाभिधायितद्धितस्य विनियोजकत्वमुच्यते ? तन्न, गोमानाव- यवमिति तद्धितान्तस्याग्नेयादिपदस्य 'सर्वत्र योगकैः शब्दै द्रव्यमेवाभिधीयते' इतिन्यायेन प्रकृत्यर्थविशिष्टद्रव्यमात्राभिधायित्वात् गोमानि- त्यादौ सम्बन्धसामान्यस्येवेह देवतात्वस्य संसर्गावधया भानमात्रेणानुशासनोपपतेः अग्नेः पुरोडाशेन सह देवतालतरम- म्बन्धासम्भवेन शब्दजन्यविशिष्टप्रतीत्पनन्तरं सम्बन्धसामान्यस्येच देवतात्वस्याप्यन्यलभ्यत्वसम्भवात् । ससपि कारकाभिधायित्वे प्रोक्षिताभ्यामुलूखलमुसलाभ्यामित्यत्र निष्ठाया इव तदितस्य द्र व्योपसर्जनक्रियानन्वारिकारकाभिधायित्वान्न विनियोजकसम्भव:, एवं चतुर्था अपि विनियोजकत्वेन प्रामाण्ये वक्तव्ये तस्यददात्य- न्वितकारकाभिधायिस्वभावतया यागान्वित तदभिधायित्वासम्भ- वादिनियोजकत्वासम्भवोदर्शयितव्यः । अथ लक्षणया यान्वयाई- कारकस्वरूपतयोपस्थाप्यत इत्युच्यते ? तर्हि यावच्छब्दानां शक्य सम्बन्धिदेवतात्वं तावतामषि लक्षणयोपस्थाकत्वसम्भवात् 'तद्धि- तेन चतुझं वेति चतुझं एव विशिष्योपन्यासोनिस्तात्पर्यकः स्यात् । किञ्च यदग्नये च प्रजापतये चे'त्यादौ होमसमभिव्याहारा- चतुझं तदन्वयाईकारकलक्षणा युक्ता अपनीतदेवताकप्रकृताया-