पृष्ठम्:मीमांसान्यायप्रकाशः (भाट्टालङ्कारटीकायुतः).pdf/३९०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भाट्टालङ्कारसहितमीमांसान्यायप्रकाशे- दादेरिव शब्दवशादभेदादेरप्यापत्तेः अर्थस्य देवत्वाधिष्ठानत्व सम्भ. वाङ्गीकारे लक्षणोपस्थाप्यशब्दस्य तदसम्भवापत्तेश्च । कचिनु मारुतादितद्धितस्यैक शेषादुत्पत्ते रेक शेपविग्रहे पयुक्ताना- मेकशेषकाले लुप्तालुतानामने कशब्दानां देवतात्वाङ्गीकारेण शक्यत एव शब्ददेवतात्ववादिनापि मारुतादेरनेकदैवत्यत्वं व्युत्पादाय- तुमित्याहुः । तचिन्त्यं अग्नीपोपीये चतुर्दाकरणापादनायोक्तन्यायन या. शचतुतस्योचारणं त्यागकाले विधिना विधयं ताशस्यैव देव- तात्वं तावच्छब्ददेवनावादिनाऽवश्यं वाच्यं, मारुतयागे च 'मातो यस्य हि क्षय' इत्यादिमन्त्रान्मरुद्भ्य इत्येव शब्दोच्चारणं विधेयं ना- न्यादृशम् । न चैकशेपविग्रहे मरुद्भ्य इति बहतः शब्दाः प्रयुक्ता नापि लुप्ताः ये त्वेकवचनान्तास्तत्र प्रयुक्ता लुप्ताश्च नैव तेषां चतुर्थीव- हुवचनान्तवाद्यादिशब्ददेवतात्वमिति । नचैतादृशकुशकाशावलंबने नापि भवताऽऽश्विनादियागेऽनेकदैवयत्वं वक्तुं युक्तं,शब्दवत् अश्वि नावित्यादेः सन्निहितानेकाभिधायित्वनियमेन मरुञ्चमरुञ्चेति वद. श्वीचाश्वीचतिविग्रहासम्भवेन द्वावित्यादिवदेक शेषित्वापुष्पवन्ता. दियुक्तं सम्भवात् किच नवमे 'पार्वणो जुहोती'त्यत्र किं पर्वशब्दोपात्तकाल- दैवत्यावारादुपकारिणौ विहितौ होमो विकृतिषु प्रवर्तेते उत पर्व शब्दोपातसमुदायदैवत्यौ सन्निपातिनौ संस्कार्यसमुदायाभावाद्विक तिषु न प्रार्त्तते इति सन्दिह्य काले पर्वशब्दस्य मुख्यत्वात् काल- दैवत्याविति पूर्वपक्षे प्राप्ते 'पार्वणहोमयोस्त्वप्रवृत्तिः समुदायार्थसंयो- गात्तदभीज्याहीति सूत्रेण समुदायवाचिपर्व शब्दसंयोगात्ममुदा- यदैवत्यौ इति मिद्धान्तितम् । कालगचित्वनिराकरणार्थे च मूत्रे ना प्रकरणवादित्यस्मिन्भाष्यकारेण समुदायप्रकरणादानकर्मणः प्री- णातेश्च भावे व्युत्पन्नस्य पर्वशब्दस्य दानसमुदाये मुख्यत्वात्समु-